पंचतत्वे विलीनः प्रो. यूपी सिंहः, मुख्यमंत्री अददात् श्रद्धांजलिम्
गोरखपुरम्, 28 सितम्बरमासः(हि.स.)। महाराणा प्रतापशिक्षापरिषदः अध्यक्षः, पूर्वाञ्चलविश्वविद्यालयस्य भूतपूर्वकुलपतिः प्रो० यू०पी०सिंहः रविवारदिने पंचतत्त्वे लीनोऽभवत्। पावनायाः राप्तीनद्याः राजघाटे तस्य अन्त्यसंस्कारः कृतः, मुखाग्निः तेन ज्येष्ठपुत्रेण
प्रो. सिंह के राजेंद्र नगर स्थित आवास पर पहुंचे सीएम योगी, पार्थिव शरीर पर पुष्प चक्र अर्पित कर किया नमन*

गोरखपुरम्, 28 सितम्बरमासः(हि.स.)।

महाराणा प्रतापशिक्षापरिषदः अध्यक्षः, पूर्वाञ्चलविश्वविद्यालयस्य भूतपूर्वकुलपतिः प्रो० यू०पी०सिंहः रविवारदिने पंचतत्त्वे लीनोऽभवत्। पावनायाः राप्तीनद्याः राजघाटे तस्य अन्त्यसंस्कारः कृतः, मुखाग्निः तेन ज्येष्ठपुत्रेण गोरखपुरविश्वविद्यालयस्य भूतपूर्वकुलपतिना प्रो० वी०के०सिंहेन दत्तः। अन्त्यसंस्कारात्पूर्वं गोरक्षपीठाधीश्वरः, मुख्यमंत्री च योगी आदित्यनाथः प्रो० यू०पी०सिंहस्य राजेन्द्रनगरस्थितगृहम् आगत्य तस्य पार्थिवशरीरे श्रद्धासुमनः अर्पयामास, भावपूर्णां श्रद्धाञ्जलिं च दत्तवान्। प्रो०सिंहस्य शनिवासरे प्रातःकाले निधनं जातम्। बलरामपुरतः गोरखपुरं प्राप्तः मुख्यमंत्री प्रथमं प्रो०सिंहस्य गृहम् आगतः। तत्र स्मृतिशेषस्य महाराणा प्रतापशिक्षापरिषदस्य अध्यक्षस्य पार्थिवशरीरे पुष्पचक्रं अर्पयित्वा तम् अनमन्यत्, श्रद्धाञ्जलिं च समर्पितवान्। मुख्यमंत्री प्रो०सिंहस्य पुत्रौ प्रो० वी०के०सिंहं, प्रो० राजीवकृष्णसिंहं, अन्यांश्च बान्धवान् आत्मीयेन संवादेन समाश्वासयत्।

अत्र महापौरः डॉ० मङ्गलेशश्रीवास्तवः, भारतीयजनतापक्षस्य प्रदेशोपाध्यक्षः तथा विधानपरिषद्सदस्यः डॉ० धर्मेन्द्रसिंहः, विधायकः विपिनसिंहः, राजेशत्रिपाठी, महेन्द्रपालसिंहः, डॉ० विमलेशपास्वानः, प्रदीपशुक्लः, राज्यमहिलायोगस्य उपाध्यक्षः चारू चौधरी, भाजपा-जिलाध्यक्षः जनार्दनतिवारी, महानगरसंयोजकः राजेशगुप्तः, पूर्वजिलाध्यक्षः युधिष्ठिरसिंहः इत्यादयः अपि महाराणा प्रतापशिक्षापरिषदस्य अध्यक्षं प्रो० यू०पी०सिंहं प्रति श्रद्धाञ्जलिं दत्तवन्तः।

प्रो०सिंहस्य अन्तिमदर्शनार्थं तस्य गृहे, तथा पार्थिवशरीरस्य अन्त्ययात्रायाम् अन्त्यसंस्कारकाले च परिषदः पदाधिकारीणः, सदस्याः, परिषद्संस्थापनां प्रमुखाः, अध्यापकाः, कर्मचारीणः, राष्ट्रीयस्वयंसेवकसंघस्य पदाधिकारीणः, कार्यकर्तारः, बहुसंख्या च मान्यजनाः उपस्थिताः आसन्।

अस्मिन् अवसरे प्रो० विश्वनाथतिवारी, विधानपरिषद्सदस्यः ध्रुवत्रिपाठी, राष्ट्रीयस्वयंसेवकसंघस्य प्रान्तप्रचारकः रमेशजी, डॉ० महेन्द्रअग्रवालः, पूर्वविधायकः शीतलपाण्डेय, महायोगीगोरखनाथविश्वविद्यालयस्य कुलसचिवः डॉ० प्रदीपकुमाररावः, डॉ० राजवन्तरावः, डॉ० राजेन्द्रभारती च सह बृहद्भिः प्रबुद्धजनसमूहैः सामान्यनागरैश्च सह उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार