असममुख्यमन्त्रिणा दुर्गासप्तमीदिने शुभाशंसाः दत्ताः
गुवाहाटी, 29 सितम्बरमासः (हि.स.): असमस्य मुख्यमन्त्री डॉ. हिमन्तबिस्वसरमा अद्य शारदीयदुर्गोत्सवस्य सप्तमीपूजायाः अवसरे प्रदेशवासिभ्यः शुभाशंसाः दत्तवन्तः। मुख्यमन्त्रिणा स्वसन्देशे उक्तं यत् अस्मिन् पावने अवसरे तेन मातुः ताम्रेश्वर्याः श्रीचरणयोः आश
Image shared by Assam CM Dr Himanta Biswa Sarma.


गुवाहाटी, 29 सितम्बरमासः (हि.स.): असमस्य मुख्यमन्त्री डॉ. हिमन्तबिस्वसरमा अद्य शारदीयदुर्गोत्सवस्य सप्तमीपूजायाः अवसरे प्रदेशवासिभ्यः शुभाशंसाः दत्तवन्तः।

मुख्यमन्त्रिणा स्वसन्देशे उक्तं यत् अस्मिन् पावने अवसरे तेन मातुः ताम्रेश्वर्याः श्रीचरणयोः आशीर्वादार्थं प्रार्थना कृता। तेन कामना कृता यत् देवी माता समस्ताः अपशक्तयः विनाश्य राज्यं सर्वाङ्गसुन्दरं समृद्धं च स्थापयतु।

हिन्दुस्थान समाचार / Dheeraj Maithani