एशियाचषकं टी-20 इत्यस्मिन् इंडियादले विजिते सति मुख्यमंत्री अददात् वर्धापनानि
पटना, 29 सितंबरमांसः (हि.स.)।भारतेन रविवासरे (सितम्बर २८ दिनाङ्के) आयोजिते स्पर्धायां पाकिस्तानं पञ्चविकेटान्तरित्या पराजित्य एशियाकप् टी–२० इत्यस्य खिताबः स्वनाम्नि कृतः। अस्य विजयस्य प्रसङ्गे मुख्यमन्त्री नितीशकुमारः, विपक्षनेता तेजस्वीयादवः, केन्द
एशियाचषकं टी-20 इत्यस्मिन् इंडियादले विजिते सति मुख्यमंत्री अददात् वर्धापनानि


पटना, 29 सितंबरमांसः (हि.स.)।भारतेन रविवासरे (सितम्बर २८ दिनाङ्के) आयोजिते स्पर्धायां पाकिस्तानं पञ्चविकेटान्तरित्या पराजित्य एशियाकप् टी–२० इत्यस्य खिताबः स्वनाम्नि कृतः। अस्य विजयस्य प्रसङ्गे मुख्यमन्त्री नितीशकुमारः, विपक्षनेता तेजस्वीयादवः, केन्द्रीय मन्त्री जीतनराममाञ्झी च भारतीयदले अभिनन्दनं दत्तवन्तः।

मुख्यमन्त्री नितीशकुमारः “एक्स्” इत्यस्मिन् लेखं प्रकाशितवान्— “एशियाकप् २०२५ फाइनल्स्पर्धायां पाकिस्तानस्य विरुद्धं भारतस्य अद्भुतविजयः अभवत्। अस्मिन् विजयेषु भारतीयक्रिकेटदले हार्दिकं अभिनन्दनम्। एष्या विजयेन अद्य अखिलं राष्ट्रं हृष्टं गौरवितं च जातम्।” इति।

एशियाकपस्य एकचत्वारिंशद्वर्षीयइतिहासे एषः प्रथमो अवसरः यदा भारत–पाकिस्तानयोः दलद्वयं फाइनलस्पर्धायां आमुखं समायातम्। परन्तु जयः अस्माकमेव अभवत्।

बिहारविधानसभायाः विपक्षनेता तेजस्वीयादवः अपि भारतीयदले अभिनन्दनं दत्त्वा “एक्स्” इत्यस्मिन् लेखं लिखित्वा उक्तवान्— “भारतात् विजयाय हार्दिकं अभिनन्दनम्।”

जीतनराममाञ्झी अपि “एक्स्” इत्यस्मिन् लिखितवान्— “नूनं पाकिस्तानसहितं क्रीडितुं अस्माकं कार्यक्रमः नासीत्, किन्तु पाकिस्तानं प्रतिपादयितुं यत् भूम्याः आरभ्य आकाशपर्यन्तं, मार्गात् आरभ्य समुद्रपर्यन्तं, सीमातः आरभ्य क्रीडाक्षेत्रपर्यन्तं वयं चॅम्पियन्स् आसीम वयं चॅम्पियन्स् एव भविष्यामः। अभिनन्दनं मम सिंहाः! अभिनन्दनं, इंडियादलं च।”

---------------

हिन्दुस्थान समाचार