ॐ: स्वास्थ्यम् अथ अध्यात्मनो नादः
डॉ शिवानी कटारा भारतीयदर्शनमध्ये ॐ-नादस्य स्वरूपम् भारतीय-दर्शने ॐ इत्येतत् न केवलम् एकाक्षरं वा मन्त्रः, अपि तु सम्पूर्ण-सृष्टेः आद्यः नादः (Primordial Cosmic Sound) इति मन्यते। उपनिषत्सु अस्य नाम प्रणवः इति निर्दिष्टम्, यस्मिन् सृष्टेः उत्पत्तिः,
डा. शिवानी कटारा


डॉ शिवानी कटारा

भारतीयदर्शनमध्ये ॐ-नादस्य स्वरूपम्

भारतीय-दर्शने ॐ इत्येतत् न केवलम् एकाक्षरं वा मन्त्रः, अपि तु सम्पूर्ण-सृष्टेः आद्यः नादः (Primordial Cosmic Sound) इति मन्यते। उपनिषत्सु अस्य नाम प्रणवः इति निर्दिष्टम्, यस्मिन् सृष्टेः उत्पत्तिः, पालनं, संहारः, तस्मात् परं चेतनायाः संकेतः च समाहितः अस्ति।

वैज्ञानिकदृष्ट्या ॐ

वैज्ञानिक-दृष्ट्या पश्यामः चेत्, ॐ त्रयाणां ध्वनिनां सम्मिश्रणं भवति—“अ”, “उ” तथा “म्”।

यदा “अ”-कारस्य उच्चारणं भवति, तदा तस्य कम्पनं नाभि-क्षेत्रे तथा उरसि अनुभवनीयम्।

“उ”-कारस्य उच्चारणेन कण्ठ-हृदययोः मध्ये तरङ्गः उत्पद्यते।

“म्”-कारेण जातः गुञ्जनः शिरसि मस्तिष्के च व्याप्नोति।

अन्ते यः सूक्ष्मः नादः (subtle resonance) शेषः भवति, सः तुरीयावस्था (चतुर्थः चेतनास्तरः) इत्यस्य प्रतीकः, या ध्यान-समाधिषु अनुभव्या।

शारीरिक-मानसिकप्रभावाः

एषः ध्वनि-क्रमः (sequence of sound) न केवलं प्रतीकात्मकः, अपि तु शरीर-मनसोः स्पष्टं प्रभावं ददाति।

यदा सम्पूर्ण-शरीरे कम्पनतरङ्गाः प्रवहन्ति, तदा तन्त्रिकातन्त्रं (nervous system) सम्यक् सन्तुलितं भवति, मानवः च गाढं शान्तिं अनुभवति।

आधुनिकवैज्ञानिक-साक्ष्याः

आधुनिक-न्यूरोसाइन्स् मन्यते—ॐ-उच्चारणेन मस्तिष्क-तरङ्गाणां (brain waves) नियमनं (modulation) भवति।

EEG-अध्ययनेषु ज्ञातम्—ॐ-उच्चारणेन अल्फा-तरङ्गाणां (alpha waves) वृद्धिः भवति, या गाढ-विश्रान्त्या (deep relaxation) एकाग्रतया च सम्बद्धा।

fMRI-अध्ययनेषु सिद्धम्—ॐ-जपेन Amygdala तथा Orbitofrontal Cortex इत्येतयोः क्रियाशीलता न्यूना भवति।

Amygdala भय-तनावयोः नियन्त्रणं करोति, Orbitofrontal Cortex तु निर्णयक्षमता-भावनासन्तुलनयोः केन्द्रीयं भवति। एषां क्रियायाः न्यूनीकरणेन जनाः शान्ताः, स्थिराः, सन्तुलिताश्च भवन्ति।

तन्त्रिकातन्त्रे प्रभावः

ॐ वेगस्-नाडीं (vagus nerve) सक्रियं करोति, या “शान्तिकरण-स्विच्” इति कथ्यते। तस्या उत्तेजनात्—

हृदयगति स्थिरा, श्वसनं गाढं सन्तुलितं, “Relaxation Response” इत्याख्या प्रक्रिया सक्रियता च। एतस्मात् कारणात् बहुषु शोधेषु ज्ञातम्—नियमित-ॐ-जपिनां रक्तचापः (blood pressure) सामान्यः भवति, हृदयरोगानां च सम्भावना न्यूना।

Indian Journal of Physiology and Pharmacology इत्यस्मिन् प्रकाशित-अध्ययने उक्तम्—ॐ-जपेन नाडीदरः (pulse rate) रक्तचापश्च उभौ न्यूनौ भवतः।

International Journal of Yoga (2010) इत्यस्मिन् अपि दर्शितम्—रक्तचाप-हृदयगति नियन्त्रणे कृते मधुमेहिनः (diabetes patients) अप्रत्यक्षलाभं प्राप्नुवन्, तेषां glycemic control अपि सुधृतम्।

Complementary Therapies in Medicine (2016) इत्यस्मिन् संशोधने प्रतिभागिनः ॐ-जपात् परं प्राणवायोः उपभोगः (oxygen consumption) श्वसनदरश्च न्यूने अनुभूतौ। तेन शरीरं ऊर्जा-अधिक-कुशलतया व्ययति।

स्त्रीस्वास्थ्ये प्रभावः

दीर्घकालिक-तनावः कॉर्टिसोल्-नामकं (stress hormone) वर्धयन् मासिकधर्म-अनियमितता, PCOS, थायरॉइड्-समस्या च जनयति।

ॐ-जपः मस्तिष्कं शान्तं कृत्वा कॉर्टिसोलं न्यूनीकरोति, पीनियल-ग्रन्थिं सक्रियं कृत्वा मेलाटोनिन् वर्धयति, येन निद्रा हार्मोन-सन्तुलनं च सुधृतम्।

Journal of Mid-life Health (2013)—ॐ-जप-योगाभ्यासाभ्यां रजोनिवृत्तेः (menopause) लक्षणानि नियन्त्रितानि।

Indian Journal of Endocrinology (2015)—PCOS-थायरॉइड्-रोगिणां metabolic profile उत्तमम्।

ॐ-नादस्य आवृत्तिः

ॐ “Healing Frequency” इति मन्यते, यस्य कम्पनं लगभग् 432 Hz अस्ति। एषा आवृत्तिः जलं कोशिकाश्च (cells) अनुनादं जनयति, येन शरीरस्य ऊर्जा-तन्त्रं पुनः सन्तुलितं भवति। आधुनिक-साउंड्-थेरेपी अस्मिन् “Resonance Therapy” इति नाम ददाति।

मानसिकस्वास्थ्ये लाभः

International Journal of Yoga (2011)—ॐ-जपेन parasympathetic-activity वर्धते, येन चिन्ता-अवसादयोः (anxiety, depression) लक्षणानि न्यूनीकृतानि।

Psychological Studies—प्रतिदिनं 20-मिनिट्-ॐ-जपः छात्राणां तनावं घटयति, एकाग्रतां वर्धयति।

विशिष्ट-ध्वनयः brain cells इत्येषां neuroprotective प्रभावं ददति। ॐ-जप-जन्याः कम्पनाः मस्तिष्के रक्तप्रवाहं सुधारयन्ति, येन मानसिक-क्षमताः (cognitive functions) सुरक्षिताः भवन्ति।

अतः Parkinson’s Disease, Alzheimer’s Disease इत्यादिषु neurodegenerative रोगेषु ॐ-जपः सहायक-चिकित्सा (adjunct therapy) इति सिद्धः (Complementary Therapies in Medicine, 2016)।

दर्शन-विज्ञानयोः समन्वयः

यदि दर्शनं विज्ञानं च एकत्र दृष्टौ, तर्हि स्पष्टं भवति—ॐ न केवलं धर्मस्य, अपि तु विज्ञानस्य अपि गहनतम् रहस्यम् स्पृशति। ॐ-उच्चारणं वास्तवतः धर्म-विज्ञानयोः मध्ये सेतुर्भवति।

(लेखिका दन्तचिकित्सकः, दिल्ली-आर्थिकशास्त्रविद्यालयात् Ph.D. प्राप्तवती च अस्ति।)

---------------

हिन्दुस्थान समाचार