बिहारराज्ये भागलपुर-निवासी सौरभः बनर्जी नामकः पुरुषः उन्मुक्तश्वानानां कृते जीवनं समर्पितवान्
भागलपुरम्, 3 सितंबरमासः (हि.स.)। देशे उन्मुक्तश्वानानां विषये उच्चतम-न्यायालयेन आदेशः पारितः अस्ति। तस्मात् परं देशे विविधानि चर्चाः आरब्धाः। किन्तु एतेषां मध्ये भागलपुरनिवासी सौरभः बनर्जी उर्फ् ‘बाबई दादा’ 1982 तमे वर्षात् प्रभृतिः स्वजीवनम् उन्मुक
आवारा कुत्तों के साथ दादा


भागलपुरम्, 3 सितंबरमासः (हि.स.)। देशे उन्मुक्तश्वानानां विषये उच्चतम-न्यायालयेन आदेशः पारितः अस्ति। तस्मात् परं देशे विविधानि चर्चाः आरब्धाः। किन्तु एतेषां मध्ये भागलपुरनिवासी सौरभः बनर्जी उर्फ् ‘बाबई दादा’ 1982 तमे वर्षात् प्रभृतिः स्वजीवनम् उन्मुक्तश्वानानामर्थं समर्पितवान्।

दादा स्वस्य आयस्य सप्ततिशतांशं श्वानानां भोजन-औषधयोः कृते व्ययति। तथा च जीवनस्य अष्टतिशतांशं समयं उन्मुक्त-श्वानानामनुसरणे व्यतीनक्ति। सौरभस्य गृहमपि उन्मुक्त-श्वानानां ‘फीडिंग-जोन’ इव परिवर्तितम्। दशाधिकाः आवारा-श्वानाः स्वगृहे यत्रतत्र निरोधं विना आगच्छन्ति, निर्गच्छन्ति च।

भागलपुर-मशाकचकस्य सतीशचन्द्र-लेन-निवासी सौरभः बनर्जी हिन्दुस्थान-समाचारं प्रति उक्तवान्— “अहं भागलपुर-स्थिते टी.एन.बी. महाविद्यालये वाणिज्यशास्त्रं अध्ययनं कृतवानस्मि, च अहं निजव्यवसायेन निजी-शिक्षकः आसीत्। किन्तु कोरोना-कालानन्तरं अध्यापनं त्यक्तवानस्मि। आयस्य एकमेव साधनं प्रवर्गमेव आसीत्। तस्मात् येन गृहव्ययः च श्वानानां व्ययः च सम्पद्यते स्म। अध्यापनं त्यक्त्वा किञ्चित्कालं कठिनता अभवत्, किन्तु मम बान्धवाः सम्पूर्ण-सहाय्यं कृतवन्तः।”

सौरभः अवदत्— “मम श्वानेषु प्रेम अतीव आसीत्, यत् अहं दिनरात्रं तेषां सेवायामेव व्यस्तः आसीत्। तत् दृष्ट्वा मम भगिनी चन्दना बनर्जी (भारतीय-रिजर्व-बैंक-निवृत्ता सामान्य-प्रबन्धकः), भगिनी, भ्राता, डॉ. कमल मुखर्जी इत्यादयः प्रत्येकमासं धनं प्रेषयितुम् आरब्धवन्तः। अद्यापि ते प्रेषयन्ति। तस्मात् एव गृहे व्ययः सम्पद्यते, श्वानानां कृते अपि व्ययः क्रियते। यदि अहं मार्गे रोगग्रस्तं श्वानं पश्यामि, तदा गृहं नयामि, पालयामि च। गृहे श्वानानां कृते कक्षः, शय्या, अन्योपकरणानि च व्यवस्थितानि। घातित-श्वानानां पट्टिका-बन्धनं कृत्वा सेवाकरणं मम सुखकरं भवति। अहं तावत् त्रीशतानधिकं श्वानानां पालनं कृतवानस्मि।”

सौरभः अवदत्— “मम संतानं नास्ति। अहं भार्यया सह वसामि। तौ श्वानान् एव आत्मीयसन्तानान् मन्ये। तेषां परिपालनं करोमि। यदि श्वानस्य मृत्युः भवति, तदा तं भूमौ निवेशयामि, तस्मिन् शोककाले त्रिदिनपर्यन्तं हिन्दुधर्मानुसारं उपवासं करोमि, जीवनचर्याम् अपि परिवर्तयामि। अद्य मम गृहे पञ्चविंशतिः श्वानाः सन्ति, यान् अहं स्नेहेन सेवामि। मम कार्ये भार्या प्रथमा बनर्जी अपि सहयोगं करोति। प्रातः प्रातः श्वानानां कृते क्षीरम् उष्णं करोति। तदा ओदनं-सूपं पक्वं करोति।”

पार्श्ववासी केका भादुरी कथयति— “वयं चत्वारिंशद्वर्षपर्यन्तं तान् जानिमः। एते घातित-श्वानान् आनयित्वा स्वगृहे औषधोपचारं कुर्वन्ति, पालयन्ति च।”

सौरभः अवदत्— “उच्चतम-न्यायालयस्य आदेशः सम्यगस्ति। यतः मनुष्यस्यापि निवासस्य अधिकारः अस्ति, तथैव श्वानानामपि अस्ति। किन्तु कतिचन श्वानाः रैबीज्-रोगेण पीड्यन्ते, तस्मात् रक्षणं आवश्यकम्। मनुष्य-श्वानयोः सम्बन्धः अत्यद्भुतः। एतत् शब्दैः व्यक्तुं न शक्यते, न च आवश्यकम्। ते अस्माकं सत्यतमाः, विश्वसनीयतमाः च मित्राणि। यदि भवतः समीपे श्वानः अस्ति, तर्हि भवता एषः सम्बन्धः अधिकं ज्ञातुं शक्यते। श्वानाः भवतः भावनाः जानन्ति, तस्मात् यदा भवन्तः दुःखिनः भवन्ति, तदा एव भवतः हर्षयितुं प्रयत्नं कुर्वन्ति।”

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता