मुख्यमन्त्रिणा योगिना महती घोषणा कृता — “भारत–गाढतन्त्र–२०२५” दिशायाम् उत्तरेप्रदेशः प्रवर्तिष्यते, कानपुरं प्रमुखकेन्द्रं भविष्यति
भारतीयप्रौद्योगिकीसंस्थाने कानपुरे ‘समन्वय’ कार्यक्रमस्य मुख्यमन्त्रिणा उद्घाटनं कृतम्। “गाढतन्त्र–भारतस्य” विषये प्रभावशाली शिखरसम्मेलनस्य आवश्यकता इति मुख्यमन्त्री। कानपुरम्, ३ सितम्बरमासः (हि.स.)। भारतीयप्रौद्योगिकीसंस्थाने (आईआईटी) कानपुरे ‘सम
आईआईटी कानपुर में बोलते सीएम योगी आदित्यनाथ


भारतीयप्रौद्योगिकीसंस्थाने कानपुरे ‘समन्वय’ कार्यक्रमस्य मुख्यमन्त्रिणा उद्घाटनं कृतम्।

“गाढतन्त्र–भारतस्य” विषये प्रभावशाली शिखरसम्मेलनस्य आवश्यकता इति मुख्यमन्त्री।

कानपुरम्, ३ सितम्बरमासः (हि.स.)।

भारतीयप्रौद्योगिकीसंस्थाने (आईआईटी) कानपुरे ‘समन्वय’ नाम उद्योग–शैक्षिकसम्बन्ध–कार्यक्रमे मुख्यमन्त्री योग्यादित्यनाथेन गाढतन्त्रस्य विषये महती घोषणा कृता। सः अवदत्— “प्रदेशं भारत–गाढतन्त्र–२०२५ इत्यस्य केन्द्रं कर्तुं दृढपदानि स्थापनीयानि।” तदर्थं गाढतन्त्रविषये प्रभावशाली शिखरसम्मेलनस्य आयोजनम् आवश्यकम्, येन अनुसन्धानाय नवोन्मेषाय च नूतना दिशा प्रदास्यते। आईआईटी कानपुरं गाढतन्त्र–नवोन्मेषस्य प्रमुखकेन्द्रं भविष्यति।

मुख्यमन्त्री योग्यादित्यनाथः बुधवासरे कानपुरे भारतीयप्रौद्योगिकीसंस्थानस्य ‘समन्वय’ इत्यस्मिन् उद्योग–शैक्षिकसम्बन्ध–कार्यक्रमे उद्घाटनं कृत्वा सभां सम्बोधितवान्। सः उक्तवान्— “वयं भारतस्य प्रथमं गाढतन्त्र–भारतं २०२५ करोतुं प्रयत्नं कुर्मः। तदर्थं उत्तमं शिखरसम्मेलनं भवेत्, यत्र गाढतन्त्रस्य विषये दृढकार्यं क्रियेत। अस्य केन्द्रं कानपुरसंस्थानमेव भवेत्।”

तेन सह, “नवप्रवर्तनान् (start–up) प्रोत्साहयितुं, युवानां च वैश्विकतन्त्र–प्रतिस्पर्धायां सज्जतां कर्तुं विशेषः प्रयत्नः करिष्यते। एतेन उत्तरप्रदेशः निकटभविष्ये तन्त्रक्रान्तेः अग्रदूतः भविष्यति।” इति उक्तम्।

असौ अपि अवदत्— “गौतमबुद्धनगरजनपदे अस्य कार्यस्य निमित्तं प्रदेशसर्वकारेण भूमिः अपि प्रदत्ता। अहं इच्छामि यत् आईआईटी कानपुरं अस्य नेतृत्वं कुर्यात् , येन एषः सम्पूर्णदेशाय अद्यतनस्पर्धासु नूतनं नेतृत्वं दातुं समर्थः भवेत्। आईआईटी कानपुरे एषा क्षमता विद्यते यत् युवानां चित्ते याः आशङ्काः सन्ति, ताः अपाकर्तुं शक्यन्ते।”

एतत्कारणात् रक्षानवोन्मेषविकाससंस्थानस्य (DRDO), भारतीयान्तरिक्षअनुसन्धानसंस्थानस्य (ISRO) अन्येषां च संस्थानानां सहयोगोऽपि ग्राह्यः इति मुख्यमन्त्रिणा निर्दिष्ट:।

हिन्दुस्थान समाचार / अंशु गुप्ता