जीएसटी-परिषदः द्विदिवसीया गोष्ठीऽद्य, कर-स्लैब्-ह्रासे निर्णयः सम्भाव्यः
नवदिल्ली, 3 सितंबरमासः (हि.स.)।, अत्र बुधवासरात् आरभ्य जीएसटी-परिषदः द्विदिवसीया गोष्ठीऽद्य प्रारभ्यते, यत्र प्रतिदिनोपयोगी-वस्तुषु करं न्यूनीकर्तुं माल-सेवा-करस्य (जीएसटी) महत्त्वपूर्ण-परिवर्तनाः विचार्यन्ते। अस्य परिषदः अध्यक्षता केन्द्रीय- वित्तमन
जीएसटी-परिषदः द्विदिवसीया गोष्ठीऽद्य, कर-स्लैब्-ह्रासे निर्णयः सम्भाव्यः


नवदिल्ली, 3 सितंबरमासः (हि.स.)।, अत्र बुधवासरात् आरभ्य जीएसटी-परिषदः द्विदिवसीया गोष्ठीऽद्य प्रारभ्यते, यत्र प्रतिदिनोपयोगी-वस्तुषु करं न्यूनीकर्तुं माल-सेवा-करस्य (जीएसटी) महत्त्वपूर्ण-परिवर्तनाः विचार्यन्ते। अस्य परिषदः अध्यक्षता केन्द्रीय- वित्तमन्त्रिण्या निर्मला-सीतारमण्या क्रियते, यस्मिन् सर्वेषां राज्येषां प्रतिनिधयः सन्ति।

अस्मिन् सभासत्रे जीएसटी-सुधार-प्रस्तावः चर्चितः भविष्यति इति अपेक्षा। प्रस्तावितेषु सुधारेषु वर्तमानं १२ प्रतिशतं २८ प्रतिशतं च कर-स्लैबौ निष्कृत्य केवलं ५ प्रतिशतं १८ प्रतिशतं च द्वे कर-दरौ स्थापयितुं मुख्यं लक्ष्यं विद्यते। अतिरिक्ततया कतिपय-विशेष-वस्तुषु ४० प्रतिशतस्य विशेष-दरेण करः आरोप्यिष्यते।

स्मरणीयं यत् स्वातन्त्र्य-दिवसस्य स्वभाषणे प्रधानमन्त्रिणा नरेन्द्रेण मोदिना जीएसटी-सुधारयोजना प्रकाशिताऽभूत्। ततः परं केन्द्रीय-सरकारया प्रारम्भिक-समीक्षायै विविध-राज्यानां मन्त्रिगणैः सह प्रस्तावित-सुधाराणां मसौदः साझीकृतः।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता