मोदिनो उद्देश्येन वैश्विक क्षमता केंद्रेषु अग्रणी जातं भारतम् - शांतनु ठाकुरः
नवदिल्ली, 3 सितंबरमासः (हि.स.)। केंद्रीयबन्दरगाह-पोतपरिवहन-जलमार्गराज्यमन्त्रिणा श्रीशान्तनुठाकुरेण बुधवासरे उक्तं यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः दृष्टेः कारणेन भारतं अद्य वैश्विकक्षमताकेन्द्रे (GCC) शीर्षस्थानं प्राप्तम्। अनेन देशः नवोन्मेषस्य प
वैश्विक क्षमता केंद्र (जीसीसी) में भारत बना नंबर एक


नवदिल्ली, 3 सितंबरमासः (हि.स.)। केंद्रीयबन्दरगाह-पोतपरिवहन-जलमार्गराज्यमन्त्रिणा श्रीशान्तनुठाकुरेण बुधवासरे उक्तं यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः दृष्टेः कारणेन भारतं अद्य वैश्विकक्षमताकेन्द्रे (GCC) शीर्षस्थानं प्राप्तम्। अनेन देशः नवोन्मेषस्य प्रतिभायाश्च प्रमुखं केन्द्रं जातम्।

श्रीठाकुरेण एक्स्-पोस्ट् इत्यस्मिन् लिखितं यत् भारतदेशे १८०० अधिका: जी.सी.सी. सञ्चालितानि, यत्र २०१० तमे वर्षे केवलं ७०० आसन्, ते अधुना शीघ्रं वर्धिताः। ते अवदन् यत् भारतदेशे प्रति द्विसप्ताहे त्रयः नूतनाः जी.सी.सी. संस्थाप्यन्ते, जगतः प्रायः ५० प्रतिशत् जी.सी.सी. इदानीं भारतदेशे एव सन्ति।

भारतं शीर्षपञ्चेषु प्रियतमेभ्यः जी.सी.सी. स्थानेषु प्रथमं स्थानं प्राप्तम्। तदनन्तरं अमेरिका, मेक्सिको, पोलैण्ड्, चीन देशाः क्रमशः द्वितीय, तृतीय, चतुर्थ, पञ्चमस्थानानि प्राप्तवन्तः। एषः विकासः भारतस्य प्रतिभां, प्रौद्योगिकीं, विश्वासं च वैश्विक-नवोन्मेषस्य इंजिनं कर्तुम् अत्यन्तं महत्त्वपूर्णः अभिमतः।

मन्त्रिणा उक्तं यत् जी.सी.सी. रोजगारं आर्थिकविकासं च शीघ्रीकरोति, साथमेव ‘मेक्-इन-इण्डिया’, ‘आत्मनिर्भरभारत’ इत्येताभ्याम् उपक्रमाभ्यां च दृढतां ददाति।

जी.सी.सी. नाम बहुराष्ट्रीयसंस्थानस्य एकं अपतटीयं शाखारूपं भवति, या विभिन्नेषु व्यापारिकेषु कार्येषु सहयोगं करोति। एतेषु आईटी, वित्त, संचालनम्, अनुसंधान-विकासः, मानवसंसाधनम्, विश्लेषणम् इत्यादयः अन्तर्भवन्ति। अधुना जी.सी.सी. केवलं व्ययकेन्द्रं नास्ति; किन्तु नवोन्मेष-परिवर्तन-मूल्य-रणनीतिकविकासानां केन्द्राणि अपि जातानि।

-----------

हिन्दुस्थान समाचार