Enter your Email Address to subscribe to our newsletters

नोएडा, गौतमबुद्धनगरम्, ३ सितम्बरमासः (हि.स.)। एनसीआर-प्रदेशे वृष्ट्याः उच्च-सतर्कतासूचनेन गौतमबुद्धनगर-जनपदस्य जिला-बेसिक-शिक्षा-अधिकारिणा प्रदत्ते आदेशे बुधवासरे प्रथमा-कक्ष्यायाः आरभ्य द्वादशी-कक्ष्यापर्यन्तं सर्वे विद्यालयाः पिहिताः भविष्यन्ति इति उद्घोषितम्। एषः निर्णयः बालकानां सुरक्षां दृष्ट्वा गृहीतः। यद्यपि कक्षा-द्वादशी-पर्यन्तं बालकानाम् अवकाशः प्रदत्तः, तथापि शासकीयविद्यालय-कार्यमण्डलस्य कर्मकराः तस्मात् मुक्ताः न। गाजियाबादेऽपि विद्यालयानाम् अवकाशादेशः प्रदत्तः।
जिला-बेसिक-शिक्षा-अधिकारी राहुल-पंवारः उक्तवान् यत् ३ सितम्बर-दिने प्रथमा-कक्षा-आरभ्य द्वादशी-कक्ष्यापर्यन्तं सर्वेषां विद्यालयानाम् अवकाशः घोष्यते। अत्र जनपदस्य परिषदीय, राजकीय, अशासकीय-सहायता-प्राप्त, सीबीएसई, आईसीएससी च सहितानि मदरसा-बोर्ड-विद्यालयानि अपि अन्तर्भवन्ति। प्रदत्त-आदेशे स्पष्टं यत् एषः निर्णयः अत्यधिक-वर्षां कारणीकृत्य छात्र-छात्राणां सुरक्षार्थं स्वीकृतः।
हिन्दुस्थान समाचार / अंशु गुप्ता