Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 3 सितंबरमासः (हि.स.)।दिल्लीपुर्याम् यमुनानद्याः जलस्तरः संकटचिह्नस्य २०५.३३ इत्यस्योपरि २०६.८ इत्यत्र प्रवहति। पर्वतीयसमतलीयप्रदेशेषु निरन्तरं वर्षणस्य, हठिनीकुण्डबन्धात् निरन्तरं जलविसर्जनस्य च परिणामेन यमुनायाः जलस्तरः संकटचिह्नं अतिक्रान्तः।
दिल्लीपुर्याः लोकनिर्माणविभागमन्त्री प्रवेशसाहिबसिंहः बुधवासरे आयटीओ-बैराजं गत्वा स्थितेः निरीक्षणं कृतवान्। सः तत्र पत्रकारान् सम्बोध्य उक्तवान् यत् अस्मिन् काले यमुनायाः जलस्तरः २०६.८ अस्ति। वर्षे २०२३ यदा यमुनाजलस्तरः २०८ पर्यन्तं प्राप्तः, तदा दिल्लीपुर्याः आवासीयप्रदेशेषु जलप्रवेशः जातः।
मन्त्रिणा स्पष्टं कथितं यत् अस्मिन् वषॆ यमुनाजलम् आवासीयप्रदेशेषु न प्रवेक्ष्यति। एषः परिणामः दिल्लीभाजपाशासनस्य कार्येण सम्भविष्यति। सः दावं कृतवान् यत् अद्य सायं पर्यन्तं यमुनायाः जलस्तरे पतनं आरभिष्यते।
यमुनातटे निवसन्तः जनाः पूर्वमेव सुरक्षितस्थानेषु नीताः। अधिकारिणः प्रभावितनागरिकाणाम् शुद्धपेयजलम्, भोजनम्, चिकित्सासुविधाः, सुरक्षितवासः च निरन्तरं प्रदातुं निर्दिष्टाः।
मन्त्रिणा उक्तं यत् बाढाप्रभावितजनानां सुरक्षा, स्वास्थ्यं, सुविधा च शासनस्य सर्वोच्चप्राथमिकता अस्ति।
विशेषतया उल्लेखनीयम् यत् मुख्यमन्त्री रेखागुप्ता मङ्गलवासरे गीताकोलोनी-उड्डयनपुलस्य समीपे स्थापितं बाढारक्षितशिविरं प्राचीनलोहमयपुलं च गत्वा यमुनायाः जलस्तरस्य प्रभावितप्रदेशानां च स्थितिरीक्षणं कृतवती। सा शिविरेषु निवसद्भिः प्रभावितपरिवारैः सह मिलित्वा तेषां समस्याः श्रुतवती, सर्वतोभावेन साहाय्यं राहतं च प्रदास्यतीति आश्वासनं दत्तवती।
---------------
हिन्दुस्थान समाचार