Enter your Email Address to subscribe to our newsletters
कटिहारः, 30 सितम्बरमासः (हि.स.)। नगर निगमक्षेत्रे बिनोदपुरनिवासिनी वीणा कुमारी स्वपुत्रेण सह पीयूषकुमारनाम्ना नवरात्रोपवासकालेऽपि अनन्यं उदाहरणं प्रस्तुतवन्तौ। तौ समाजसेविनः पवन पोद्दारस्य सहाय्येन सदर-चिकित्सालये रक्तदानं कृत्वा रोगिणः प्राणान् रक्षितवन्तौ।
वीणा कुमारी पीयूषकुमारश्च दर्शितवन्तौ यत् नवरात्रोपवासकालेऽपि मानवसेवा कर्तुं शक्यते। अस्याः कृतेः समाजे सकारात्मकः सन्देशः प्रसृतः। वीणा कुमारी आदर्शमाता, या केवलं स्वपरिवारस्य न अपि तु समाजस्यापि सेवायां विश्वासं धारयति। पुत्रः पीयूषकुमारः मातुः संस्कारान् अंगीकृत्य रक्तदानं कृत्वा रोगिणः प्राणान् रक्षितवान्।
एतेन कार्येण समाजाय सन्देशः गतः यत् आवश्यककाले वयं अग्रे गत्वा अन्येषां सहाय्यं कर्तव्यम्। तयोः प्रेरणादायककृत्या अन्ये अपि प्रेरिताः भविष्यन्ति। वीणाकुमारी-पीयूषकुमारयोः एषः उपक्रमः अभिनन्दनीयः, यस्य फलतः समाजे सकारात्मकः परिवर्तनः आगमिष्यति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता