Enter your Email Address to subscribe to our newsletters
-बलिदानी राजा गुरु बालकदास चलचित्रं साहसस्य शौर्यस्य च अनुपमा गाथा : मुख्यमंत्री सायः
रायपुरम् 30 सितंबरमासः (हि.स.)।मुख्यमन्त्री विष्णुदेवसायः सोमवासरस्य विलम्बितरात्रौ राजधानीरायपुरे स्थितेऽम्बुजामॉल्-नाम्नि सिनेमागृहे छत्तीसगढ़ीचलच्चित्रं “बलिदानी राजा गुरु बालकदास” इति द्रष्टुं प्राप्तवान्।
अस्मिन् अवसरि विधानसभााध्यक्षः डॉ. रमणसिंहः, मन्त्रिमण्डलस्य सदस्यः गुरु खुश्वन्तसाहेबः, विधायकः डोमनलालकोर्सेवाडा, विधायकः रोहितसाहुः, धर्मगुरुः गुरु बालदाससाहेबः सहितं अनेकाः जनप्रतिनिधयः सतनामिसमाजस्य गण्यमान्यनागरिकाश्च उपस्थिताः आसन्।
मुख्यमन्त्री सायः उक्तवान् यत् “बलिदानी राजा गुरु बालकदास” इति चलचित्रं साहसस्य शौर्यस्य च अनुपमा गाथा अस्ति। गुरु बालकदासः आङ्ग्लैः पिण्डारिभिश्च कृषकानां प्रति क्रियमाणानामत्याचाराणां, दारिद्र्यस्य च विरुद्धं न केवलं संघर्षं कृतवान्, अपितु समाजं संगठयितुं अपि प्रयत्नं कृतवान्। तेन शिक्षायाः दीपः प्रज्वालितः, सामाजिकसौहार्दं वर्धितम्, आङ्ग्लानां दमननीतयः विरोधिताः, स्वतंत्रतासंग्रामे च महत्त्वपूर्णा भूमिका वहिता।
मुख्यमन्त्री सायः एतत् अपि घोषितवान् यत् “बलिदानी राजा गुरु बालकदास” इति चलचित्रं छत्तीसगढ़राज्ये करमुक्तं भविष्यति, यथा अधिकाधिकदर्शकाः एतां प्रेरणादायिनीं गाथां द्रष्टुं शक्नुयुः, स्वइतिहासेन विरासतया च सम्बद्धाः भूयुः।
मुख्यमन्त्री अवदत् – अस्माकं छत्तीसगढ़राज्यं प्रारम्भकालात् एव वीरशहीदानां संतमहात्मनाम् च भूमिः आसीत्। आवश्यकता अस्ति यत् वयं स्वमहानां स्वतंत्रतासेनानिनां इतिहासं जानीयाम, अवगच्छेम च। सः अवदत् यत् एषा चलचित्रकृति छत्तीसगढ़स्य स्वतंत्रतासंग्रामे भूमिका, राज्यस्य समृद्धसंस्कृतिः, सामाजिकसौहार्दम्, आङ्ग्लविरोधिनः संघर्षः, जीवनस्य सहजतां च अतीव रमणीयरूपेण प्रस्तुतयति।
मुख्यमन्त्री सायः छत्तीसगढ़ीचलच्चित्रस्य प्रतिभाः प्रशंसन् अवदत् – अस्माकं कलाकाराः, निर्देशकाः, सम्पूर्णयूनिट् च परिश्रमेण समर्पणेन च कार्यं कुर्वन्ति। अस्य कारणेन एव छत्तीसगढ़ीचलच्चित्रं अद्य दर्शकानां हृदयानि स्पृशति।
सः अवदत् – राज्यसर्कारेण प्रस्ताविता फिल्मसिटी नाम योजना छत्तीसगढ़ीचलच्चित्राय उत्तमानि अधिसंरचनानि, अधिकसन्दर्भान्, राष्ट्रीयमञ्चं च प्रदास्यति। अस्मात् स्थानिकप्रतिभाः प्रेरणां प्राप्स्यन्ति, राज्यस्य सांस्कृतिकपरिचयः अपि सशक्तः
भविष्यति।
हिन्दुस्थान समाचार