Enter your Email Address to subscribe to our newsletters

सिलीगुड़ी, 10 जनवरीमासः (हि. स.)। डाबग्राम–फुलबाड़ी-विधानसभा-क्षेत्रे भारतीयजनतापक्षेण शनिवासरे ‘परिवर्तनसंकल्पसभा’ आयोजिता। सा सभा ईस्टर्न्-बाइपास्-स्थिते ढाकेश्वरी-काली-मन्दिरस्य प्राङ्गणे अभवत्। अस्यां सभायां भाजपानेतृभिः राज्यसर्वकारस्य विरुद्धं तीव्राः आक्रमणाः कृताः।
सभायां राज्यभाजपाध्यक्षः शमिकभट्टाचार्यः, पूर्वाध्यक्षः दिलीपघोषः, जलपाईगुड़ी-लोकसभासांसदः जयन्तरायः, सिलीगुड़ी-विधायकः शंकरघोषः इत्यादयः बहवः वरिष्ठनेतारः उपस्थिताः आसन्।
अस्मिन् अवसरे शमिकभट्टाचार्यः 2026-विधानसभा-निर्वाचनं लक्ष्यं निर्दिश्य अवदत् यत् “षड्विंशतिः एव अन्तिमसीमा अस्ति, परिवर्तनं निश्चयेन भविष्यति।” नेतृभिः राज्ये विधिव्यवस्थायाः अवनतिः, भ्रष्टाचारः, उद्योगानां पलायनम् तथा उत्तरबङ्गालस्य उपेक्षा इत्यादीनां आरोपाः कृताः।
सभाकाले भाजपानेतृत्वेन मतदातृसूच्याः शुद्धतायै, नागरिकतासंशोधनविधेयकस्य (सीएए) तथा एस्-आइ-आर् प्रक्रियायां सहयोगाय आह्वानं कृत्वा 2026 तमे वर्षे सत्तापरिवर्तनस्य संकल्पः पुनः दृढीकृतः।
हिन्दुस्थान समाचार