Enter your Email Address to subscribe to our newsletters

- मटरद्वारा निर्मितव्यंजनानां प्रतियोगिता अथ च बायर-सेलर मेलनं भविष्यति
जबलपुरम्, 11 जनवरीमासः (हि.स.)। मध्यप्रदेशे “एकः जनपदः एकं उत्पादनम्” इति योजनायाः अन्तर्गतं जबलपुर जनपदे चयनितस्य मटरस्य ब्राण्डिङ् तथा विपणनस्य उद्देश्येन अद्य रविवासरे “मटर महोत्सवः” आयोज्यते।मटर महोत्सवः तिलवारा मार्गे स्थिते रॉयल ऑर्बिट नाम्नि होटले प्रातः दशवादनतः आरभ्यते।
जनसम्पर्क अधिकारी आनन्द जैनः अवदत् यत् जिला प्रशासनम्, उद्यानिकी एवं खाद्य प्रसंस्करण विभागः तथा मध्यप्रदेश औद्योगिक विकास निगमः होटल एण्ड रेस्टोरेन्ट वेल्फेयर एसोसिएशन्, उद्योग विभागः, पर्यटन विकास निगमः, जबलपुर स्मार्ट सिटी, जबलपुर चेम्बर ऑफ कॉमर्स् तथा महाकौशल चेम्बर ऑफ कॉमर्स् इत्येतेषां सहयोगेन एषः मटर महोत्सवः आयोज्यते। अस्मिन् महोत्सवे मटरनिर्मितव्यञ्जनानां प्रतियोगिता भविष्यति।
एकदिवसीये अस्मिन् मटर महोत्सवे बायर् सेलर् मीट् अपि आयोज्यते। अस्मिन् बायर् सेलर् मीट् कार्यक्रमे जबलपुरी मटरस्य प्रसंस्करणे निवेशसम्बन्धिनी तथा निर्यातसम्बन्धिनी सूचना प्रदास्यते।
हिन्दुस्थान समाचार