Enter your Email Address to subscribe to our newsletters


गुवाहाटीनगरम्, ११ जनवरीमासः (हि.स.)। असम–राज्यस्य मुख्यमन्त्री डाॅ.हिमन्त–बिस्व–शर्मा अवदत् यत् वर्तमानस्य उच्च–न्यायालय–भवनस्य गरिमा च तस्य ऐतिहासिकी परम्परा आधुनिक–न्यायिक–आवश्यकताभिः सह अधुना न समञ्जस्यते। मुख्यमन्त्री रविवासरे उत्तर–गुवाहाटी–स्थिते रङ्गमहल-इत्यत्र एकीकृत–न्यायिक–अदालत–परिसरस्य आधारशिला–स्थापन–समारोहं सम्बोधितवान्।मुख्यमन्त्रिणा एषः दिवसः असमवासिनां कृते ऐतिहासिकः इति वर्णितः। सः अवदत् यत् नूतन–न्यायालय–परिसर–निर्माणस्य निर्णयः व्यापक–विचार–विमर्शेन विशेषज्ञानां परामर्शेण च अनन्तरं गृहीतः। न्यायमूर्ति: सन्दीप–मेहता न्यायालय–परिसरस्य अन्यस्मिन् स्थले स्थानान्तरणस्य विचारं दत्तवान्, ततः पश्चात् षट्–सप्त वैकल्पिक–स्थलानां निरीक्षणं कृतम्।डाॅ.शर्मणा सूचितं यत् प्रदर्शितेषु स्थलेषु न्यायमूर्ति: सन्दीप–मेहता रङ्गमहल–स्थलम् एव सर्वाधिकम् उपयुक्तम् इति मन्यते स्म। तेन आधारेण अत्र आधुनिकस्य एकीकृतस्य च न्यायालय–परिसरस्य निर्माणस्य निर्णयः कृतः। अस्य परियोजनायै १४८ बीघा–परिमिताया भूमेः अधिग्रहणं कृतम् इति अपि सः अवदत्।मुख्यमन्त्रिणा स्थानीय–जनानां सहयोगः प्रशंसितः। सः अवदत् यत् रङ्गमहलस्थले निवसन्तः जनाः किमपि आपत्तिं विना भूमेः हस्तान्तरणं कृतवन्तः। एतत् न्यायपालिकायां जनानां सम्मानं विश्वासं च दर्शयति।परियोजनायाः विवरणं प्रदाय मुख्यमन्त्री अवदत् यत् प्रस्ताविते परिसरे एकत्रिंशत् (३१) न्यायालय–कक्षाः भविष्यन्ति। अधिवक्तृभ्यः प्रायः ३०० कक्षाः निर्मीयन्ते, यत्र एकस्मिन् समये प्रायः २००० अधिवक्तारः उपविष्टाः कार्यं कर्तुं शक्नुवन्ति। अस्य परिसरस्य पूर्णतायां कामरूप–(ग्रामीण)–कामरूप–(मेट्रो)–जनपदयोः मिलित्वा पञ्चषष्टिः (६५) दीवानी–न्यायालयाः सञ्चाल्यन्ते।अतिरिक्तं च, परिसरे प्रायः सहस्र–जन–क्षमता–युक्तः सभाकक्षः अपि भविष्यति। न्यायालय–परिसरं प्रति सुगम–आवागमनाय चतुर्पंक्ति–मार्ग–निर्माणस्य योजना अपि अस्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता