Enter your Email Address to subscribe to our newsletters

बिलासपुरम् 11 जनवरीमासः (हि.स.)।
छत्तीसगढस्य उपमुख्यमन्त्रीः तथा क्रीडामन्त्रीः अरुणसावः अद्य रविवासरे अवदत् यत् द्वादशे जानेवारीदिने स्वामी विवेकानन्दस्य जयन्तीं सम्पूर्णं राष्ट्रं राष्ट्रिययुवादिवसत्वेन आचरति। छत्तीसगढराज्ये नानाविधानि कार्यक्रमाणि आयोज्यन्ते। अनेकेषु स्थलेषु स्वदेशीधावनस्य आयोजनं भविष्यति। तेन उक्तं यत् क्रीडा एवं युवा कल्याण विभागेन युवरत्नपुरस्कारोऽपि प्रदास्यते।
उपमुख्यमन्त्री अरुणसावः अवदत् यत् श्वः द्वादशे जानेवारीदिने तस्य नेतृत्वे क्रीडा एवं युवा कल्याण विभागः बिलासपुरे विश्वकीर्तिमाननिर्माणाय प्रवर्तते। पुलिस ग्राउण्ड बिलासपुरे पञ्चशताधिकं सहस्राधिकं च बालकाः स्वामी विवेकानन्दस्य वेशभूषां धारयित्वा एकत्र भविष्यन्ति तथा वन्दे मातरम् इति गानं करिष्यन्ति। एकस्मिन् काले पञ्चदशशतं विद्यालयीयबालकाः नशासेवनं न करिष्याम इति प्रतिज्ञां करिष्यन्ति। अपि च कम्पनी गार्डन बिलासपुरे विवेकानन्दस्य प्रदर्शनी आयोज्यते।
उपमुख्यमन्त्री अरुणसावः सूचितवान् यत् पुलिस ग्राउण्ड बिलासपुरे पञ्चसहस्रपञ्चशतवर्गफीटपरिमाणादपि विशालया मनोहारया च रंगोल्या स्वामी विवेकानन्दस्य चित्रं निर्मीयते।
अस्मिन् वर्षे राष्ट्रिययुवादिवसे बिलासपुरं देशस्य सर्वत्र आकर्षणकेन्द्रं भविष्यति। एतत् बिलासपुरस्य तथा सम्पूर्णस्य छत्तीसगढस्य गौरवविषयः अस्ति।
---------------
हिन्दुस्थान समाचार