Enter your Email Address to subscribe to our newsletters

इंदौरम्, 11 जनवरीमासः (हि.स.)।
मध्यप्रदेशराज्यस्य इन्दौरनगरे भागीरथपुरानाम्नि क्षेत्रे दूषितजलसेवनकारणात् एकविंशतिः (२१) जनानां मृत्युः अभवत्। भागीरथपुरायां दूषितजलेन जातासु मृत्युषु अनन्तरं आक्रामका अभवन् कांग्रेसदलस्य नेतारः स्वशक्तिप्रदर्शनार्थं अद्य रविवासरे मार्गे अवतरिष्यन्ति।
इन्दौरस्य बृहत् गणपतिचतुष्पथे प्रदेशस्य वरिष्ठाः कांग्रेसनेतारः एकत्र भविष्यन्ति, ततः च तस्मात् स्थानात् “न्याययात्रा” निर्गमिष्यति। एषा न्याययात्रा बृहत् गणपतिचतुष्पथात् आरभ्य राजवाडां यावत् गमिष्यति। भागीरथपुरायां घटितायां घटनायां ये जनाः प्राणान् त्यक्तवन्तः, तेषां कृते कांग्रेसदलः न्यायं याचिष्यति।
जिला तथा नगर कांग्रेसद्वारा प्रदत्तायां सूचनायां कथितम् यत् इन्दौरस्य भागीरथपुरायां घटिता एषा भीषणा अपराधघटना भारतीयजनतादलस्य जनप्रतिनिधीनां तथा प्रशासनस्य उत्तरदायित्वे अस्ति। अस्य विरोधरूपेण कांग्रेसदलः विशालां न्याययात्रां आयोजयिष्यति। एषा यात्रा बृहत् गणपतिचतुष्पथात् आरभ्य राजवाडां यावत् गमिष्यति। यात्रा मध्याह्ने प्रायः द्वादशवादने आरभ्यते।
अस्यां यात्रायां कांग्रेसदलस्य बहवः नेतारः कार्यकर्तारश्च भागं ग्रहीष्यन्ति। विशेषतया प्रदेशकांग्रेसाध्यक्षः जीतूपटवारी, पूर्वमुख्यमन्त्री दिग्विजयसिंहः, विपक्षनेता उमङ्गसिंघारः, पूर्वमन्त्री सज्जनवर्मा, मध्यप्रदेशकांग्रेससमितेः प्रभारी हरिशचौधरी, विवेकतन्खा, नगरकांग्रेसाध्यक्षः चिन्टूचौकसे इत्यादयः, अपि च प्रदेशस्य कांग्रेसविधायकाः, पार्षदाः, कांग्रेससेवादलस्य, महिलाकांग्रेसस्य पदाधिकारिणः कार्यकर्तारश्च बहुसंख्यया सम्मिलिताः भविष्यन्ति।
जिला तथा नगर कांग्रेसद्वारा दावा क्रियते यत् भागीरथपुरापीडितानां न्यायार्थं आयोज्यमानायां यात्रायां प्रायः दशसहस्रं (१०,०००) जनाः सम्मिलिताः भविष्यन्ति। जिलाध्यक्षः विपिनवानखेड़े तथा नगराध्यक्षः चिन्टूचौकसे अवदताम् यत् एषा यात्रा पूर्णतया मौनयात्रा भविष्यति। यात्रामार्गे कांग्रेसद्वारा किमपि स्वागत-मञ्चं न स्थाप्यते। एषा यात्रा गैरराजनीतिकरूपेण आयोजिता भविष्यति। यात्रायां क्वापि कांग्रेसध्वजः न दृश्यते। केवलं कांग्रेसकार्यकर्तारः एव न, अपि तु सामान्यजनाः अपि यात्रायां भागं ग्रहीष्यन्ति।
एषा यात्रा इन्दौरनगरस्य नागरिकानां न्याययात्रा भविष्यति, यस्यां भागीरथपुराघटनायाः उत्तरदायित्वनिर्धारणार्थं स्वरः उन्नीयते।
---------------
हिन्दुस्थान समाचार