Enter your Email Address to subscribe to our newsletters

रांची, 11 जनवरीमासः (हि.स.)। डिजिटल स्वास्थ्यस्य क्षेत्रे झारखंड राज्येन पुनः एका महत्त्वपूर्णा उपलब्धिः स्वनामाङ्किता कृता। राज्यसर्वकारस्य नागरिककेन्द्रिता डिजिटलप्रयत्नेन “आयुष्मान आरोग्य लोकेटर” इति प्रतिष्ठितेन स्कॉच अवॉर्ड 2025 इत्यनेन सम्मानिता जाता। एषः सम्मानं झारखंड स्वास्थ्यविभागस्य अधीनस्थ आयुष्मान भारत डिजिटल मिशनस्य उत्कृष्टकार्याणां राष्ट्रियस्तरे मान्यतायाः प्रमाणम् अस्ति।स्वास्थ्यविभागेन रविवासरे निर्गता प्रेस विज्ञप्तिः सूचयति यत् दिल्लीस्थे इंडिया हैबिटेट सेंटर इत्यत्र आयोजिते सम्मानसमारोहॆ “आयुष्मान आरोग्य लोकेटर” परियोजनायै एषः पुरस्कारः आयुष्मान भारत डिजिटल मिशनस्य मिशन निर्देशकः सह अपर सचिवः विद्यानन्द शर्मा पंकज इत्यस्मै स्वटीमसहितं प्रदानः कृतः। अस्मिन् अवसरॆ एबीडीएमस्य संयुक्त निदेशकः सहितः मिशनसम्बद्धाः अन्ये वरिष्ठ अधिकारिणः च उपस्थिताः आसन्।वास्तवतः “आयुष्मान आरोग्य लोकेटर” सामान्यनागरिकान् ध्यानॆ निधाय विकसितः एकः डिजिटल मंचः अस्ति। अस्य पहलया जनाः केवलं साधारणेन गूगल शोधेन स्वसमीपस्थ स्वास्थ्यसुविधानां प्रमाणिकां अद्यतनां च सूचनां प्राप्नुवन्ति। अत्र चिकित्सालयानां स्वास्थ्यकेन्द्राणां च छायाचित्राणि, सम्पर्कसंख्याः, मार्गदर्शनसूचनाः (स्थाननिर्देशाः), उपलब्धसेवानां विस्तृतविवरणं च समाविष्टम् अस्ति।अस्याः पहलायाः महत्तमा विशेषता एषा अस्ति यत् स्वास्थ्यसुविधानां मानचित्रणं उपकेन्द्रस्तरपर्यन्तं सम्पूर्णतया कृतम् अस्ति। अनेन न केवलं नगरीयाः, अपि तु ग्रामीणाः तथा दूरस्थप्रदेशेषु निवसन्तः नागरिकाः अपि स्वनिकटस्थस्य स्वास्थ्यकेन्द्रस्य विवरणं सुलभतया लभन्ते। एषा व्यवस्था अन्तिमसीमापर्यन्तं स्वास्थ्यसेवानां दृश्यता तथा सुलभतां सुनिश्चितं करोति।“आयुष्मान आरोग्य लोकेटर” स्वास्थ्यसेवायां पारदर्शितां सुदृढं करोति तथा नागरिकानां सेवाप्राप्तिं सरलां प्रभाविनीं च बनयति। विशेषतः ग्रामीणेषु तथा दूरदराजप्रदेशेषु निवसतां जनानां कृते एषः मंचः समये उपचारप्राप्तौ महत्त्वपूर्णां भूमिकां निर्वहति।एषा पहल आयुष्मान भारत डिजिटल मिशनस्य विकसित भारतस्य च राष्ट्रियदृष्टेः अनुरूपा अस्ति, यस्य उद्देश्यं डिजिटल प्रौद्योगिक्याः माध्यमेन स्वास्थ्यसेवानां अधिकसुलभतां पारदर्शितां प्रभावित्वं च वर्धयितुम् अस्ति।उल्लेखनीयं यत् स्कॉच समूहः देशव्यापिनः उत्कृष्टकार्याणि विविधमापदण्डैः मूल्याङ्क्य राज्येषु संस्थासु च पुरस्कारार्थं चयनं करोति। एतादृशेन प्रतिष्ठितेन मंचेन प्राप्तः एषः सम्मानः झारखंडराज्यस्य कृते गौरवस्य विषयः अस्ति तथा डिजिटल स्वास्थ्यनवाचारान् अधिकं अग्रे नेतुं महत्त्वपूर्णा प्रेरणा अपि अस्ति।---------------
हिन्दुस्थान समाचार