उप मुख्यमंत्री केशव प्रसाद मौर्यः पूर्व प्रधानमंत्री लाल बहादुर शास्त्रिणं स्मृतवान्
लखनऊ,11 जनवरीमासः (हि.स.)। उत्तरप्रदेशस्य उपमुख्यमन्त्री केशवप्रसादमौर्यः रविवासरे लखनऊनगरे स्थिते शासकीयावासे सप्तकालिदासमार्गे भारतस्य पूर्वप्रधानमन्त्रीणः लालबहादुरशास्त्रिणः पुण्यतिथौ तस्य छायाचित्रे माल्यार्पणं पुष्पाञ्जलिं च अर्पयित्वा विनम्
केशव प्रसाद मौर्य


लखनऊ,11 जनवरीमासः (हि.स.)।

उत्तरप्रदेशस्य उपमुख्यमन्त्री केशवप्रसादमौर्यः रविवासरे लखनऊनगरे स्थिते शासकीयावासे सप्तकालिदासमार्गे भारतस्य पूर्वप्रधानमन्त्रीणः लालबहादुरशास्त्रिणः पुण्यतिथौ तस्य छायाचित्रे माल्यार्पणं पुष्पाञ्जलिं च अर्पयित्वा विनम्रां श्रद्धाञ्जलिं अकार्षीत्।

उपमुख्यमन्त्री स्वस्य सामाजिकमाध्यमलेखने ‘एक्स्’ इत्यस्मिन् अवदत् यत् तस्य सरलतायाः दायित्वपूर्णतायाः राष्ट्रसेवायाः च आदर्शाः अस्मान् सर्वान् सदा कर्तव्यपथे अग्रसरं भवितुं प्रेरयिष्यन्ति।

हिन्दुस्थान समाचार