सोमनाथमन्दिरं पूर्ण-वैभवेन विश्वपटले प्रतिष्ठितम् - रेखागुप्ता
नवदेहली, 11 जनवरीमासः (हि.स.)।दिल्ली-राज्यस्य मुख्यमन्त्री रेखागुप्ता अद्य सामाजिक-पटले इत्यस्मिन् लेखं लिखितवती। तत्र सा अवदत् यत् भारतस्य अक्षया चेतना, सांस्कृतिक-स्वाभिमानस्य च शिखरभूतं सोमनाथमन्दिरम् अद्य पूर्ण-वैभवेन विश्वपटले प्रतिष्ठितम् अस्
सोमनाथ मंदिर के परिसर में प्रधानमंत्री नरेन्द्र मोदी


नवदेहली, 11 जनवरीमासः (हि.स.)।दिल्ली-राज्यस्य मुख्यमन्त्री रेखागुप्ता अद्य सामाजिक-पटले इत्यस्मिन् लेखं लिखितवती। तत्र सा अवदत् यत् भारतस्य अक्षया चेतना, सांस्कृतिक-स्वाभिमानस्य च शिखरभूतं सोमनाथमन्दिरम् अद्य पूर्ण-वैभवेन विश्वपटले प्रतिष्ठितम् अस्ति। इतिहासः साक्षी अस्ति यत् आततायिनां क्रूर-प्रहाराः तथा तेषां विध्वंसकारी-षड्यन्त्राणि भारतस्य सृजनशीलताम्, अडिगां च आस्थां युक्तं हिमालय-संकल्पं कदापि विचलितुं न शक्तवन्तः।

मुख्यमन्त्री अवदत् यत् सोमनाथस्य एषः भव्यः स्वरूपः लौहपुरुषस्य सरदारपटेलस्य अटूट-प्रणस्य, के.एम. मुञ्शेः सांस्कृतिक-दृष्टेः तथा डॉ. राजेन्द्रप्रसादस्य अडिग-श्रद्धायाः प्रतिफलम् अस्ति। अस्य महनीय-धरोहरायाः पल्लवनाय माननीय-प्रधानमन्त्रिणः नरेन्द्रमोदिनः अतुलनीयः समर्पणः नितरां वन्दनीयः इति सा उक्तवती।

मुख्यमन्त्री पुनः अवदत् यत् गुजरातस्य मुख्यमन्त्रीरूपेण मन्दिर-परिसरस्य कायाकल्पं, यात्रिक-सुविधानां नूतन-रूपरेखायाः निर्माणं च कृत्वा, ततः प्रधानमन्त्रिरूपेण ‘समुद्र-दर्शन-पथस्य’ निर्माणात् आरभ्य सोमनाथ-तीर्थस्य डिजिटल-आधुनिक-अधोसंरचनाभिः संयोजनं यावत्— मोदिना अस्य तीर्थस्य वैश्विक-गौरवं वर्धितम्। तस्य नेतृत्वे अद्य नवभारतं गजनी-सदृश-आक्रान्तॄणां धूलिधूसरित-इतिहासस्य उपरि सांस्कृतिक-पुनर्जागरणस्य स्वर्ण-अध्यायं लिखति।

‘सोमनाथ-स्वाभिमान-पर्व’ इत्यस्य एषः ऐतिहासिकः अवसरः अस्य शाश्वत-सत्यस्य उद्घोषः अस्ति यत् अधर्मस्य अन्धकारः कियत् अपि सघनः स्यात्, धर्म-सत्ययोः सूर्यः सदा एव उदेति।

मुख्यमन्त्री रेखा गुप्ता राष्ट्रस्य सांस्कृतिक-अस्मितायाः एतस्मिन् दिव्य-कायाकल्पे माननीय-प्रधानमन्त्रिणः प्रति कोटि-कोटि अभिनन्दनं व्यक्तवती।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता