निजी शिक्षण संस्थानेषु पारदर्शी प्रवेशे लब्धश्छात्रवृत्तेः लाभः
- दशमोत्तर छात्रवृत्तेः एवं शुल्क प्रतिपूर्ति योजनायाः च नियमावल्यां 2023 जातं संशोधनम् लखनऊ, 11 जनवरीमासः (हि.स.)। दशमोत्तर छात्रवृत्ति तथा शुल्कप्रतिपूर्तियोजनायाः लाभः केवलं वास्तविकेभ्यः पात्रेभ्यश्च विद्यार्थिभ्यः प्राप्यतामिति उद्देश्येन सम
सांकेतिक फाेटाे


- दशमोत्तर छात्रवृत्तेः एवं शुल्क प्रतिपूर्ति योजनायाः च नियमावल्यां 2023 जातं संशोधनम्

लखनऊ, 11 जनवरीमासः (हि.स.)।

दशमोत्तर छात्रवृत्ति तथा शुल्कप्रतिपूर्तियोजनायाः लाभः केवलं वास्तविकेभ्यः पात्रेभ्यश्च विद्यार्थिभ्यः प्राप्यतामिति उद्देश्येन समाजकल्याणविभागः सततं प्रयत्नशीलः अस्ति। अस्मिन् क्रमणे शासनद्वारा योजनायाः नियमावलिः २०२३ मध्ये आवश्यकाः संशोधनानि कृतानि सन्ति। एते संशोधनानि अनुसूचितजाति अनुसूचितजनजाति तथा सामान्यवर्गयोः उभयोः विद्यार्थिषु प्रवर्तितानि भविष्यन्ति।

समाजकल्याण उपनिदेशकः आनन्दकुमारसिंहः अवदत् यत् अस्य संशोधनस्य मुख्योद्देश्यः निजीशिक्षणसंस्थानानां प्रवेशप्रक्रियायां तांत्रिकीपारदर्शितां स्पष्टतां च स्थापितुं भवति, येन पात्रविद्यार्थिभ्यः छात्रवृत्तेः शुल्कप्रतिपूर्तेः च लाभः सुनिश्चितः स्यात्। तेनैव व्यवस्थापनकोटा, स्पॉट् प्रवेशः तथा अन्याः अपारदर्शिकाः प्रवेशप्रक्रियाः माध्यमेन छात्रवृत्तेः दुरुपयोगे प्रभावीः प्रतिबन्धः स्थाप्यते।

अनुसूचितजाति अनुसूचितजनजाति विद्यार्थिनां विषये संशोधितनियमानुसारं इदानीं निजीशिक्षणसंस्थासु व्यावसायिकेषु वा तांत्रिकपाठ्यक्रमेषु अध्ययनरतानां अनुसूचितजाति अनुसूचितजनजाति विद्यार्थिनां छात्रवृत्तेः शुल्कप्रतिपूर्तेः च लाभः तदा एव प्रदेयः भविष्यति, यदा तेषां प्रवेशः पूर्णतया पारदर्शिकया प्रक्रियया कृतः स्यात्। अस्य अन्तर्गतं संस्थया सार्वजनिकविज्ञापनस्य प्रकाशनं, आवेदनानां आमन्त्रणं, मेरिट्सूचीनिर्माणं तथा चयनसूचीनां प्रकाशनं अनिवार्यं कृतम् अस्ति। अपि च विद्यार्थिभ्यः केवलं सक्षमप्राधिकारेण वा शुल्कनियामकसमित्याः अनुमोदितं शुल्कमेव ग्राह्यं भवेदिति सुनिश्चितं कृतम् अस्ति।

सामान्यवर्गस्य विद्यार्थिनामपि संशोधितनियमानुसारं समानरूपेण शुल्कप्रतिपूर्तेः लाभः प्रदीयते, यदि तेषां प्रवेशः पारदर्शिकप्रक्रियायाः अन्तर्गतः जातः स्यात् तथा तैः अनुमोदितं शुल्कमेव दत्तं स्यात्।

उपनिदेशकः आनन्दकुमारसिंहः स्पष्टतया अवदत् यत् व्यवस्थापनकोटा, स्पॉट् प्रवेशः अथवा अन्यया केनापि प्रकारेण अपारदर्शिकया प्रवेशप्रक्रियया प्रविष्टानां विद्यार्थिनां योजनायाः लाभः न प्रदेयः भविष्यति। तथैव यदि संस्था नियतादधिकं शुल्कं वसूलयति तर्हि अपि लाभः देयः न भविष्यति।

------------

हिन्दुस्थान समाचार