Enter your Email Address to subscribe to our newsletters

लखनऊनगरम्, ११ जनवरीमासः (हि.स.)। योगी–सर्वकारः स्वामी–विवेकानन्द–जयंती–अवसरे ‘राष्ट्रीय–युवा–दिवस:’ आयोजयिष्यति। मुख्यमन्त्री योगी–आदित्यनाथः सोमवासरे इंदिरा–गांधी–प्रतिष्ठानस्य जूपिटर–सभागारे आयोजिते मुख्य–आयोजनमध्ये राज्य–स्तरीय विवेकानन्द–युवा–पुरस्कारं (२०२४–२५) प्रदास्यति। अस्मिन् अवसरे खेल–युवा–कल्याण–मन्त्री गिरिश–चन्द्र–यादवः अपि उपस्थित: भविष्यति।मुख्यमन्त्री योगी–आदित्यनाथः ‘खेलो–इंडिया’ योजनायाः अन्तर्गतं २१ कोटि रूप्यकैः निर्मितानां पञ्च सभागाराणाम् (लखनऊ–नगरस्य द्वौ, हरदोई, कन्नौज, सहारनपुर–नगरस्य एकैकम्) लोकार्पणं करिष्यति। तथा एतस्मिन् स्थले एव २६ कोटि रूप्यकैः निर्मितानां त्रयाणां ग्रामीण–क्रीडास्थलानां (सुल्तानपुर, कासगंज, फतेहपुर) शिलान्यासम् अपि करिष्यति।युवा–कल्याण–विभागस्य उप–निदेशकः अजात–शत्रु–शाही रौद्रवासरे उक्तवान् यत्—व्यक्तिगत–श्रेण्याम् चयनितानां १० यूनाम् तथा मङ्गल–दल–श्रेण्यां चयनितानां युवक–महिला–मङ्गल–दलस्य सदस्यानाम् राज्य–स्तरीय विवेकानन्द–युवा–पुरस्कारः प्रदास्यते।व्यक्तिगत–श्रेण्यां चयनितानां यूनां पुरस्कारराशिः ५०,००० रूप्यकाणि, स्मृति–चिह्नम्, अंगवस्त्रं, प्रशस्ति–पत्रं च भविष्यति।मङ्गल–दलस्य युव–महिला–समूहाय राज्य–स्तरे प्रथम–पुरस्कारः १,००,००० रूप्यकाणि, स्मृतिचिह्नं, प्रावारम्, प्रमाणपत्रादि च प्रदास्यन्ते। लखनऊ–नगरस्य विवेकानन्द–युवा–पुरस्कार–वितरण–कार्यक्रमे १५०० यूनां मङ्गल–दलस्य उपस्थिति: भविष्यति।
यून: राज्य–स्तरे सम्मानितं करिष्यति मुख्यमन्त्री
व्यक्तिगत–श्रेणी (१० यून:)
1. अभिनीतकुमारमौर्य: – हरदोई2. महिका खन्ना – शाहजहांपुरम्3. देवानंदराय: – देवरिया4. अभिषेकपाण्डेय: – मऊ5. संजनासिंह: – बरेली6. प्रणव: द्विवेदी – गोरखपुरम्7. साक्षी झा – गाजियाबादनगरम्8. सचिनगौरी वर्मा – गोरखपुरम्9. अवधेशकुमार: – लखनऊ10. शिखा सहलोद: – गाजियाबादनगरम्
युवक–मङ्गल–दलम् (राज्य–स्तरीय चयनित:)
1. संतकबीर–नगर–सेमरियावाँ ग्राम–पञ्चायत – रिजवानमुनीर: (अध्यक्ष:)2. बिजनौर–शहदपुरगुलालग्राम–पञ्चायत: – घनश्यामसिंह: (अध्यक्ष:)3. शाहजहांपुरम्–चौधेरा ग्राम–पञ्चायत: – इन्द्रजीत: लोधी (अध्यक्ष:)
महिला–मङ्गल–दलम् (राज्य–स्तरीय चयनित:)
1. बिजनौर–नहटौर विकास–खण्ड–बसेड़ाखुर्द ग्राम–पञ्चायत – ज्योति: (अध्यक्ष:)2. फिरोजाबाद–अरांव विकास–खण्ड–अकबरपुरसराय ग्राम–पञ्चायत – शिवानी चंदेल: (अध्यक्ष:)3. संतकबीर–नगरम्–सांथा विकास–खण्ड–पसाई ग्राम–पञ्चायत – सुमन कुमारी (अध्यक्ष:)
हिन्दुस्थान समाचार / अंशु गुप्ता