संस्कारशालायाः त्रि दिवसीय प्रशिक्षणं संपन्नम्
हरिद्वारम्, 11 जनवरीमासः (हि.स.)। बहादराबादे स्थिते अशोकसिंघलसेवाधाम् वात्सल्यवाटिकायां उत्तराखण्डप्रान्तस्य विश्वहिन्दूपरिषदः सेवाविभागस्य द्वारा सञ्चालितः त्रिदिवसीयः संस्कारशालाचार्यप्रशिक्षणवर्गः अद्य समापितः अभवत्। समापनसत्रे विश्वहिन्दूपरि
संस्कारशाला में प्रशिक्षण देते हुए


हरिद्वारम्, 11 जनवरीमासः (हि.स.)।

बहादराबादे स्थिते अशोकसिंघलसेवाधाम् वात्सल्यवाटिकायां उत्तराखण्डप्रान्तस्य विश्वहिन्दूपरिषदः सेवाविभागस्य द्वारा सञ्चालितः त्रिदिवसीयः संस्कारशालाचार्यप्रशिक्षणवर्गः अद्य समापितः अभवत्।

समापनसत्रे विश्वहिन्दूपरिषदः उत्तराखण्ड उत्तरप्रदेशयोः संयुक्तक्षेत्रसेवाप्रमुखः राधेश्यामद्विवेदीः आचार्यान् कार्यकर्तॄंश्च सम्बोधयन् अवदत् यत् वर्तमानकाले गृहे विद्यालये समाजे च संस्काराणां क्षयः गम्भीरचिन्तायाः विषयः अस्ति। सः अवदत् यत् यदा बालकाः बालिकाश्च स्वसांस्कृतिकमूल्येभ्यः जीवनव्यवहाराच्च विच्छिद्यन्ते तदा ते दुष्प्रवृत्तीनां दुष्चक्रे पतन्ति। तस्मात् बाल्यावस्थायामेव संस्कारबीजारोपणं कृत्वा एव सशक्तः समरसः राष्ट्रनिष्ठश्च समाजः निर्मातुं शक्यते। संस्कारयुक्ताः बालकाः बालिकाश्च एव भारतस्य सुरक्षितस्य उज्ज्वलस्य च भविष्यस्य आधारस्तम्भाः सन्ति।

प्रयागराजतः आगतायाः केन्द्रीयदलस्य सदस्या डॉ. अम्बालिकामिश्रा संस्कारशालाभिः सम्बद्धाः भगिन्यः प्रशिक्षयित्वा ताः स्वदायित्वेषु जागरूकाः अकरोत् तथा व्यवहारिकोदाहरणैः संस्कारशिक्षायाः उपयोगितां रेखाङ्कितवती।

प्रान्तसेवाप्रमुखः अनिलभारतीयः अवदत् यत् विश्वहिन्दूपरिषदः सेवा संस्कार संस्कृतिः इति मूलभावान् आत्मसात् कृत्वा वात्सल्यवाटिकया आगामिकाले पञ्चविंशतिग्रामेषु प्रशिक्षिताभिः आचार्याभिः संस्कारशिक्षा हिन्दुत्वजागरणं महिलासशक्तीकरणं च कार्यं क्रियते। एषः प्रयासः समाजे व्यक्तित्वनिर्माणं पारिवारिकसमरसतां राष्ट्रबोधं च दृढीकर्तुं महत्त्वपूर्णं चरणं सिद्धं भविष्यति।

प्रशिक्षणवर्गस्य कुशलः संयोजनं वात्सल्यवाटिकायाः प्रबन्धकेन प्रदीपमिश्रेण कृतम्। अस्मिन् अवसरे रविजोशी प्रमुखशिक्षिका मानसीभार्गवः प्रकल्पाधीक्षकः अश्वनीशर्मा च सहितं वात्सल्यवाटिकायाः समस्तकर्मचारिवर्गस्य उल्लेखनीयः सहयोगः आसीत्।

---------------

हिन्दुस्थान समाचार