द्विदिवसीयं मध्य प्रदेश स्टार्टअप संगोष्ठी-2026 अद्यारभ्यः रवीन्द्र भवने
- देशस्य प्रदेशस्य च प्रतिभां दास्यति विकसित भारतस्य संदेशं, द्विदिवसीये भविष्यति अनेकानि सत्राणि। भोपालम्, 11 जनवरीमासः (हि.स.)। राजधानी भोपालनगरे रविन्द्रभवने अद्य रविवासरात् आरभ्य द्विदिवसीयः “मध्यप्रदेश् स्टार्टअप् संगोष्ठी २०२६” नाम शिखरस
स्टार्टअप (प्रतीकात्मक तस्वीर)


- देशस्य प्रदेशस्य च प्रतिभां दास्यति विकसित भारतस्य संदेशं, द्विदिवसीये भविष्यति अनेकानि सत्राणि।

भोपालम्, 11 जनवरीमासः (हि.स.)। राजधानी भोपालनगरे रविन्द्रभवने अद्य रविवासरात् आरभ्य द्विदिवसीयः “मध्यप्रदेश् स्टार्टअप् संगोष्ठी २०२६” नाम शिखरसम्मेलनस्य आयोजनं क्रियते। अयं द्विदिवसीयः स्टार्टअप् शिखरसम्मेलनं देशस्य सर्वेभ्यः प्रदेशेभ्यः आगतान् स्टार्टअप्स्, निवेशकान्, इन्क्यूबेटर्स्, उद्योगजगतः प्रतिनिधीन्, नीतिनिर्मातॄन्, एफपीओ, एमएसएमई तथा स्टार्टअप् इकोसिस्टेम्-संबद्धान् भागीदारान् एकस्मिन् सामूहिकमञ्चे समानीयते।

अस्य समिट्-माध्यमेन राज्यस्य शीघ्रविकसमानस्य स्टार्टअप् इकोसिस्टेमस्य, नीत्याधारितसुधाराणाम्, निवेशावसराणाम् तथा प्रेरणादायकसफलताकथानां प्रदर्शनं भविष्यति। एतेन सह नेटवर्किंग्, अध्ययनम् एवं सहकार्याय उच्चप्रभावयुक्तः मञ्चः अपि प्रदीयते।

जनसम्पर्काधिकारी राजेशबैनः सूचनां दत्त्वा अवदत् यत् समिटस्य प्रथमदिवसस्य प्रमुखः केन्द्रबिन्दुः ज्ञानसाझाकरणेन तथा स्टार्टअप् सहभागितया स्टार्टअप् इकोसिस्टेमस्य सुदृढीकरणं भविष्यति। तस्य दिनस्य सत्राणां आरम्भः “इन्क्यूबेटर् सस्टेनेबिलिटी” विषयकायाः इन्क्यूबेटर् मास्टर् क्लास् द्वारा भविष्यति, यस्यां NSRCEL–IIM बैंगलोर्, ISBA, IIM इन्दौर् तथा देशस्य अग्रणी इन्क्यूबेटर्स्-सम्बद्धाः विशेषज्ञाः सहभागं करिष्यन्ति।

तदनन्तरं एग्री एफपीओ-नां स्टार्टअप्-रूपेण विकासः तथा वैल्यू-चेन-परिवर्तनम् इति विषये पैनल्-चर्चा आयोजिता भविष्यति, यस्यां नवाचारः, इम्पैक्ट् फण्डिंग् तथा स्केलेबल् एग्री-उद्यमिता-मॉडल्स् इत्येषु विषयेषु विचारविमर्शः भविष्यति। मध्याह्नोत्तरं स्टार्टअप् पिचिंग् सत्रम् (क्वालिफायर् राउण्ड्) आयोजितं भविष्यति, यस्मिन् चयनिताः स्टार्टअप्स् निवेशकानां मेंटर्स्-समक्षं स्वविचारान् प्रस्तोष्यन्ति।

द्वितीयदिवसः — पिचिंग् फाइनल्स्, उद्घाटनसत्रम् एवं सेक्टोरल् संवादसत्राणि

समिटस्य द्वितीयदिवसस्य आरम्भः स्टार्टअप् पिचिंग् फाइनल्स् द्वारा भविष्यति, यस्मिन् उच्चसम्भावनायुक्तानां स्टार्टअप्स्-नां चयनं क्रियते। अस्मिन् दिने अर्थात् १२ जनवरी सोमवासरे समिटस्य उद्घाटनं मुख्यमन्त्रिणा डॉ. मोहनयादवेन कर्तव्यं भविष्यति। तस्मिन्नेव अवसरें देशस्य प्रतिष्ठिताः उद्यमिनः निवेशकाः च — अमनगुप्ता (बोट्-संस्थायाः सहसंस्थापकः), अंकितअग्रवालः (इशयोरेंस् देखो संस्थायाः संस्थापकः मुख्यकार्यकारी अधिकारीश्च) तथा विनीतरायः (आविष्कार् ग्रुप्-संस्थायाः संस्थापकः) स्वसम्बोधनानि करिष्यन्ति। अस्मिन् अवसरें प्रदर्शनी अपि आयोजिता भविष्यति।

अस्मिन् एव प्रसङ्गे स्टार्टअप् अवॉर्ड्स्-प्रदानम्, “एमपी स्टार्टअप् इन्स्पायरिंग् स्टोरीज्” संकलनस्य विमोचनम्, सिंगल्-क्लिक् इन्सेन्टिव् पहल तथा राष्ट्रीयसंस्थाभिः सह रणनीतिकाः एमओयू अपि सम्पादिताः भविष्यन्ति। मध्याह्नोत्तरं सेक्टोरल् सत्राणां तथा फायरसाइड् चैट्स्-नामकसंवादानां माध्यमेन रियल् ग्रोथ् मैट्रिक्स्, महिला उद्यमिता, स्टार्टअप्स् तथा ओडीओपी एमएसएमई-नां कृते सोशल् मीडिया एवं इन्फ्लुएंसर् मार्केटिंग्, तथा वैश्विकविस्ताररणनीतयः इत्यादिषु विषयेषु गहनचर्चा भविष्यति।

कार्यक्रमे भागग्रहणाय इच्छुकाः प्रतिभागिनः निर्दिष्टे जालपुटे पञ्जीकरणं कर्तुं शक्नुवन्ति।

हिन्दुस्थान समाचार