प्रधानमन्त्री मोदी च जर्मनी–चांसलर इत्येतौ गांधी–आश्रमं प्राप्तवन्तौ, महात्मा–गान्धिने श्रद्धांजलिम् अर्पितवन्तौ
अहमदाबादनगरम्, १२ जनवरीमासः (हि.स.)। प्रधानमन्त्री श्री नरेन्द्र–मोदी सोमवासरे जर्मनी–चांसलर-फ्रेडरिक्–मर्जेण सह अहमदाबाद–नगरे साबरमती–नद्याः तीरे स्थितं गांधी–आश्रमं प्राप्तवान्। उभौ नेतारौ महात्मा–गान्धिन: प्रतिमायां पुष्पाञ्जलिं समर्पितवन्तौ, ह
Visit


Visit


अहमदाबादनगरम्, १२ जनवरीमासः (हि.स.)।

प्रधानमन्त्री श्री नरेन्द्र–मोदी सोमवासरे जर्मनी–चांसलर-फ्रेडरिक्–मर्जेण सह अहमदाबाद–नगरे साबरमती–नद्याः तीरे स्थितं गांधी–आश्रमं प्राप्तवान्। उभौ नेतारौ महात्मा–गान्धिन: प्रतिमायां पुष्पाञ्जलिं समर्पितवन्तौ, हृदयकुञ्जस्य च अवलोकनं कृतवन्तौ।

गांधी–आश्रमे उभौ नेतारौ आश्रमस्य क्रियाकलापानां विकास–कार्याणां च विषये सूचनां प्राप्तवन्तौ। ततः अनन्तरं प्रधानमन्त्री मोदी जर्मनी–चांसलरः इत्येतौ अन्ताराष्ट्रिय–पतङ्ग–महोत्सवे भागं ग्रहीतुं प्रस्थितवन्तौ, यत्र मुख्यमन्त्री भूपेन्द्र–पटेलः तयोः स्वागतं कृतवान्।

मुख्यमन्त्री भूपेन्द्र–पटेलः अपि गांधी–आश्रमे उपस्थितः आसीत्। तस्य उपस्थितौ प्रधानमन्त्री मोदी गांधी–आश्रमस्य नवीनीकरण–कार्याणां समीक्षां कृतवान्, एतद्विषये सभामपि आयोजितवान्।

जर्मनी–चांसलर-फ्रेडरिक्–मर्जः रविवासरे रात्रौ विलम्बेन अहमदाबाद–विमानपत्तनं प्राप्तवान्, यत्र राज्य–सर्वकारस्य वरिष्ठ–अधिकारीभिः तस्य स्वागतं कृतम्। तस्य यात्रा अन्ताराष्ट्रिय–दृष्ट्या महत्त्वपूर्णा इति मन्यते।

गांधी–आश्रम–दर्शनानन्तरं प्रधानमन्त्री मोदी जर्मनी–चांसलरः चल अहमदाबाद–नगरे आयोजिते अन्ताराष्ट्रिय–पतङ्ग–महोत्सवे भागं ग्रहीष्यन्ति, यत्र ते वैदेशीय–प्रतिनिधिभिः सह संवादं करिष्यन्ति। प्रधानमन्त्री मोदी साबरमती–रिवरफ्रण्टमध्यै “अन्ताराष्ट्रिय–पतङ्ग–महोत्सवः २०२६” इत्यस्य उद्घाटनं करिष्यति।

महोत्सव–उद्घाटनानन्तरं प्रधानमन्त्री मोदी गांधीनगर–स्थितं महात्मा–मन्दिरं गमिष्यति, यत्र भारत–जर्मनी–द्विपक्षीय–सभा आयोजिष्यते। अस्यां सभायां व्यापारः, औद्योगिकी, उद्योगः, परस्पर–सहयोगश्च इत्यादयः विषयाः चर्चायां भविष्यन्ति।

हिन्दुस्थान समाचार / Dheeraj Maithani