Enter your Email Address to subscribe to our newsletters

गुवाहाटीनगरम्, १२ जनवरीमास: (हि.स.)। असमस्य मुख्यमन्त्री डाॅ.हिमन्त–विश्व–शर्मणा भारतीय–जनता–पक्षस्य (भा.ज.पा.) राष्ट्रीय–उपाध्यक्षाय बैजयन्त–‘जय’–पाण्डामहोदयार तस्य जन्मदिन–अवसरे हार्दिक–शुभकामनाः प्रदत्ता।मुख्यमन्त्री स्वस्य सामाजिक–माध्यम–सन्देशे पाण्डामहोदयाय प्रतिष्ठितसांसदाय, गम्भीर–विचारकाय च लोकप्रियाय नेत्रे निरूप्य लिखितवान् यत् तस्य अमूल्य–मार्गदर्शनात् पक्षः भूमितले सुदृढतां प्राप्तवान् अस्ति।डाॅ.शर्मणा मातुः कामाख्यायाः तथा श्रीमन्त–शङ्करदेवस्य च आशीर्वादेन पाण्डामहोदयस्य दीर्घायुः उत्तम–स्वास्थ्यं च प्रार्थितम्, तस्य उज्ज्वल–भविष्यस्यापि कामना कृता।
हिन्दुस्थान समाचार / अंशु गुप्ता