राज–दरभंगायाः महाराज्ञ्या: कामसुन्दरीदेव्या: निधनमभवत्
मधुबनीनगरम्, १२ जनवरीमासः (हि.स.)।दरभंगा–राजपरिवारस्य महाराज्ञी कामसुन्दरी देवी ९६ वर्षाणाम् आयुषि सोमवासरे दिवंगतवती।सोमवासरे महाराज्ञी स्वस्य राजपरिसरे स्थिते कल्याणी–निवासे अन्तिमं श्वासं त्यक्तवती। तस्याः निधनात् दरभंगा–नगरं च सम्पूर्णं मिथिला–
दरभंगा राज की महारानी की फाइल फोटो।


मधुबनीनगरम्, १२ जनवरीमासः (हि.स.)।दरभंगा–राजपरिवारस्य महाराज्ञी कामसुन्दरी देवी ९६ वर्षाणाम् आयुषि सोमवासरे दिवंगतवती।सोमवासरे महाराज्ञी स्वस्य राजपरिसरे स्थिते कल्याणी–निवासे अन्तिमं श्वासं त्यक्तवती। तस्याः निधनात् दरभंगा–नगरं च सम्पूर्णं मिथिला–क्षेत्रं च शोकम् अनुभवति।महाराणज्ञी कामसुन्दरी देवी प्रसिद्धस्य दरभंगा–महाराज्ञ: कामेश्वर–सिंहस्य तृतीया अन्तिमा च पत्नी आसीत्। तयोः विवाहः १९४० दशकस्य कालमध्ये जातः। महाराजा–कामेश्वर–सिंहस्य प्रथमा द्वे पत्न्यः, महाराज्ञी राजलक्ष्मी तथा महाराज्ञी कामेश्वरी–प्रिया, पूर्वमेव इह लोकेन निवृत्ताः। अतः कामसुन्दरी देवी परम्परया राजपरिवारस्य वरिष्ठा सदस्या आसीत्।महाराज्ञी कामसुन्दरी देवी सामाजिक–परोपकारीकर्मसु प्रसिद्धा आसीत्। तेन स्वस्य पत्यु: महाराज्ञ: कामेश्वर–सिंहस्य स्मृत्यै “महाराजाधिराज कामेश्वर–सिंह कल्याणी फाउंडेशन” संस्थानस्य स्थापना कृतम्। अस्मिन् संस्थाने शिक्षा–स्वास्थ्य–सामाजिकसेवा इत्यादीनि बहूनि कार्याणि सम्पादितानि। अद्यापि अस्मिन् संस्थाने दुर्लभग्रन्थाः अपि लभ्यन्ते।

हिन्दुस्थान समाचार / Dheeraj Maithani