Enter your Email Address to subscribe to our newsletters

बविआ–प्रत्याशी गावडे - प्रत्येकं गृहे विकासस्य प्रकाशं प्रापयितुं संकल्पिताः वयम्
मुम्बईनगरम्, १२ जनवरीमासः (हि.स.)। वसई–विरार–नगर–महानगरपालिकायाः (वी.वी.सी.एम.सी.) निर्वाचन–प्रसङ्गे प्रभाग–१६ तः बहुजन–विकास–आघाडा इत्यस्य (बविआ) प्रत्याशी धनञ्जय–विट्ठल–गावडे नागरिकैः सह संवादं कृतवान्। सः मतदातृभ्य: “सीटिका”–चिह्नेन मतदानं कृत्वा स्वपक्षस्य सर्वान् प्रत्याशिनः बहुमतेन विजेतार: कर्तुम् आहूतवान्।अस्मिन् अवसरे गावडे अवदत्—“वयं वचनानि न, अपि तु कार्याणि एव अकुर्म, अग्रेऽपि करिष्याम:।”सः नागरिक–सेवायाः संकल्पं पुनः प्रतिपादयन् अवदत् यत् राजनीति: अस्माकं कृते सत्ता न, अपि तु सेवा–व्रतम् अस्ति। जनतया पूर्वमपि अस्मभ्यं सेवायाः अवसरः दत्तः, अस्मिन् समये अपि सा अवसरं दास्यति इति तस्य विश्वासः।“प्रत्येकं गृहे, प्रत्येकं वसतौ विकासस्य प्रकाशप्रापणम् एव अस्माकं संकल्पः अस्ति। जनतया प्राप्तं सम्मानम् एव अस्माकं परिचयः, जन–स्वरः एव अस्माकं शक्तिः,” इति सः अवदत्।अस्मिन् कार्यक्रमे पक्षस्य पदाधिकारिणः, कार्यकर्तारः तथा च बहवः स्थानीय–निवासिनः उपस्थिताः आसन्।उल्लेखनीयम् यत् वसई–विरार–क्षेत्रे सक्रियः सामाजिक–राजनीतिकः संघटनं “स्वराज–अभियानम्” इत्यस्य माध्यमेन धनञ्जय–गावडे स्थानीय–स्तरे जन–समस्यानां समाधान–कार्यं निरन्तरं कुर्वन् अस्ति। जल–आपूर्तिः, सुमार्ग–निर्माणम्, जल–निष्कासन–व्यवस्था इत्यादीनां मूलभूत–सुविधानां सुधाराय सः प्रयासरतः अभवत्।तस्य संघटनस्य माध्यमेन “स्वच्छ–भारत–अभियानम्” तथा “स्वच्छता–हि–सेवा” इत्यादीनि अभियानानि अपि सञ्चालिताः सन्ति। वसई–विरार–महानगरपालिका–निर्वाचने बहुजन–विकास–आघाडा तथा धनञ्जय–गावडे-इत्यस्य स्वराज–अभियानम् इत्यनयो: गठबन्धनेन कृतम् अस्ति।ज्ञातव्यं यत् वी.वी.सी.एम.सी. अन्तर्गतं आहत्य ११५ आसनानां कृते निर्वाचनं भविष्यति। बहुजन–विकास–अखाडा तथा भारतीय–जनता–पक्षयोः मध्ये मुख्यः संघर्षः अपेक्षितः। १५ जनवरीमासे मतदानं, १६ जनवरीमासे मतगणना च भविष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता