Enter your Email Address to subscribe to our newsletters

रायपुरम्, 12 जनवरीमासः (हि.स.)।
मुख्यमन्त्री विष्णुदेवसायः महर्षेः महेशयोगिनः जयन्त्याः (जनवरीमासस्य द्वादशे दिने) अवसरं कृत्वा तस्मै नमनं समर्पयन् अवदत् यत् सः विश्वविख्यातः आध्यात्मिकगुरुः दार्शनिकः योगाचार्यश्च आसीत्, येन भावातीतध्यानस्य माध्यमेन भारतस्य प्राचीनां वैदिकचेतनां वैश्विकीं परिचितिं प्रदत्तवान्।
मुख्यमन्त्री सायः अवदत् यत् छत्तीसगढराज्यस्य पवित्रायां भूमौ राजिमनगरस्य समीपे पाण्डुकाग्रामे जन्म प्राप्य महर्षिः महेशयोगी भारतीयं अध्यात्मं आधुनिकविज्ञानेन वैश्विकसंवादेन च संयोज्य मानवकल्याणाय नूतनं मार्गं प्रशस्तवान्। तस्य सम्पूर्णं जीवनं साधनायै अनुशासनाय मानवसेवायै च समर्पितम् आसीत्।
मुख्यमन्त्री अवदत् यत् महर्षेः महेशयोगिनः अयं सन्देशः यत् मनुष्यस्य अन्तः असीमा ऊर्जा ज्ञानं सम्भावनाश्च निहिताः सन्ति इति अद्यतनस्य तनावपूर्णस्य प्रतिस्पर्धात्मकस्य च युगस्य सन्दर्भे अत्यन्तं प्रासङ्गिकः अस्ति। तस्य शिक्षाः आत्मबोधाय मानसिकशान्तये सन्तुलितजीवनशैल्यै च समाजं निरन्तरं प्रेरयन्ति।
मुख्यमन्त्री सायः अपि अवदत् यत् महर्षिणा महेशयोगिना स्थापिताः संस्थाः वैदिकविश्वविद्यालयाः ध्यानकेन्द्राणि आयुर्वेदपरम्पराश्च शिक्षाक्षेत्रे स्वास्थ्यक्षेत्रे आध्यात्मिकजागरणक्षेत्रे च उल्लेखनीयं योगदानं कुर्वन्ति। तस्य विचारैः प्रेरिताः विश्वस्य सर्वत्र लक्षाधिकाः जनाः मानवतायै शान्तये समरसतायै च कार्यं कुर्वन्ति।
अन्ते मुख्यमन्त्री विष्णुदेवसायः विश्वासं व्यक्तवान् यत् महर्षेः महेशयोगिनः दिव्याः शिक्षाः आगामिसंततीनां कृते आत्मविकासस्य आन्तरिकशान्तेः वैश्विकसद्भावस्य च मार्गे निरन्तरं मार्गदर्शनं करिष्यन्ति।
हिन्दुस्थान समाचार / Dheeraj Maithani