Enter your Email Address to subscribe to our newsletters

कोलकाता, 12 जनवरीमासः (हि.स.)। भारतस्य निर्वाचन आयोगः उत्तरपश्चिमपश्चिमबङ्गालप्रदेशस्य सप्तजिल्लासु मतदातृनामावलीविशेषगहनपुनरीक्षणप्रक्रियायां सत्यापनार्थं चायबागानानां तथा सिनकोना रोपणक्षेत्राणां अभिलेखान् वैधप्रपत्ररूपेण उपयोगाय अनुमोदनं कृतवान्। आधिकारिकसूत्रैः ज्ञायते यत् एतद्विषयकसूचना राज्यस्य मुख्यनिर्वाचनाधिकारिणे मनोजकुमार अग्रवालाय प्रेषिते पत्रे उल्लिखिता अस्ति।
निर्वाचन आयोगेन उक्तं यत् दार्जिलिङ्ग् कलिम्पोङ्ग् जलपाईगुडी कूचबिहार आलिपुरद्वार उत्तरदिनाजपुर दक्षिणदिनाजपुर इति जिल्लानां विषये अस्मिन् प्रस्तावे आयोगस्य काचन आपत्तिः नास्ति।
अस्मिन् अन्तराले दार्जिलिङ्गतः भारतीयजनतापक्षस्य सांसदः राजू बिष्टः सामाजिकमाध्यमे प्रकाशितेन संदेशेन अवदत् यत् अद्यतनकाले सिनकोना रोपणक्षेत्राणां तथा चायबागानानां जीविकासम्बद्धाः अभिलेखाः भविष्ये विविधेषु आधिकारिककार्येषु अपि महत्त्वपूर्णप्रपत्ररूपेण मान्याः भविष्यन्ति।
सांसदेन अपि तथ्यं कृतं यत् सः स्वयमेव मुख्यनिर्वाचनायुक्तं ज्ञानेश कुमारं प्रति पत्रं लिखित्वा विशेषगहनपुनरीक्षणसत्यापनाय एतेषां अभिलेखानां वैधप्रपत्ररूपेण स्वीकारणाय अनुरोधं कृतवान्।
उल्लेखनीयं यत् पश्चिमबङ्गालप्रदेशे वर्तमानकाले प्रचलति विशेषगहनपुनरीक्षणप्रक्रियायां राज्यव्यापिनः लक्षाधिकाः जनाः सूचनापत्राणि प्राप्नुवन्ति यत्र अल्पदोषेष्वपि नामविलोपनात् जनानां मध्ये असन्तोषस्य वातावरणं निर्मितम् अस्ति। अत एव निर्वाचन आयोगः सत्यापनप्रक्रियायां नूतनप्रपत्राणां समावेशाय निरन्तरं प्रयत्नान् करोति।
हिन्दुस्थान समाचार