Enter your Email Address to subscribe to our newsletters

— गङ्गा–तटे निनादितं “उत्तिष्ठत, जाग्रत च, लक्ष्य–प्राप्तेः पूर्वं मा विरमत”
वाराणसीनगरम्, १२ जनवरीमास: (हि.स.)। स्वस्थ–शरीरेण स्वस्थ–विचारैश्च एव स्वस्थ–राष्ट्रस्य निर्माणं सम्भवति—इति सन्देशं दत्तवान् युगपुरुषः स्वामी–विवेकानन्दः। तस्य जयन्त्यवसरे सोमवासरे “नमामि–गङ्गे” अभियानेन श्री–काशी–विश्वनाथ–धामस्य गङ्गा–द्वारात् स्वच्छतायाः मन्त्रः प्रदत्तः।“उत्तिष्ठत, जाग्रत च, लक्ष्य–प्राप्तेः पूर्वं मा विरमत” इति स्वामी–विवेकानन्दस्य सुप्रसिद्धं वचनं स्मारयित्वा स्वच्छ–स्वस्थ–भारतस्य संकल्पः कृतः।राष्ट्रीय–युवा–दिवसे स्वामी–विवेकानन्दस्य प्रेरणादायकाः विचाराः—“आत्मनिर्भराः भवत, आत्मशक्तिं च चिनुत, मानवतायाः सेवां कुरुत”इति घोषेण प्रतिध्वनिताः।अस्मिन् अवसरे “नमामि–गङ्गे” काशी–क्षेत्रस्य संयोजकः राजेश–शुक्लः अवदत् यत् स्वामी–विवेकानन्दः सरल–विचारधारया देशस्य तात्कालिक–समस्यानां निवारणे महत्त्वपूर्णां भूमिकां निरवहत्। सः योग–वेदान्त–मार्गे चलितुं सन्देशं दत्तवान्।स्वामी–विवेकानन्दः भारतीय–संस्कृतिं दर्शनं च विश्वस्तरे प्रतिष्ठापितवान्, यून: आत्मविश्वासे, सेवायां, शिक्षायां, चरित्र–निर्माणे च प्रेरितवान्, तथा च स्वस्य ओजस्विभिः विचारैः राष्ट्रे नव–चेतनां जागरितवान्।अस्मिन् आयोजने विनीतारायः, मयङ्का–नेगी, रिङ्कल:, अमित–सिंह–नेगी, ओमचन्द्र–मित्तलः, राकेश–रोशनः इत्यादयः भागं गृहीतवन्तः।
हिन्दुस्थान समाचार / अंशु गुप्ता