उच्च शिक्षायै, महिला सुरक्षायै अथ समाज उत्थानाय च वचनबद्धोऽस्मि - गावडे
BVA's election campaign in Nalasopara
जनसंपर्क अभियान के दौरान बविआ प्रत्याशी।


-प्रभाग 16 तः बविआ प्रत्याशिनो महिलाभिःकृता आरती, दत्तो जयस्य आशीर्वादः

मुंबई, 13 जनवरीमासः, (हि. स.)। वसई विरार नगर महानगरपालिका (वीवीसीएमसी) निर्वाचनं प्रति प्रचारकार्यं अधुना चरमसीमां प्राप्तम् अस्ति। निर्वाचनसभाभिः तथा रैलीभिः माध्यमेन प्रत्याशिनः स्वशक्तेः प्रदर्शनं कुर्वन्ति। एतासु सभासु समर्थकानां महती भीड् अपि समागच्छति।

अस्यां एव कड्यां प्रभाग क्रमांक १६ तः बहुजन विकास आघाडी (बविआ) पक्षस्य प्रत्याशी धनंजय विट्ठल गावडे अपि उत्साहपूर्वकं निर्वाचनप्रचारं कृतवान्। सः स्वपैनलस्य सर्वेषां प्रत्याशिनां कृते मतयाचनां कृत्वा बहुमतेन विजयीकरणाय जनान् आह्वानं कृतवान्।

जनसम्पर्ककाले विभिन्नस्थलेषु महिलाभिः गावडे महोदयस्य आरती कृताः तथा विजयाशिषः दत्ताः। अस्मिन् अवसरॆ गावडे महोदयः जनैः सह सर्वेषु सुखदुःखेषु सहवासस्य वचनं दत्तवान्।

गावडे अवदत् यत् मूलभूतसुविधानां उपलब्धिं कृत्वा उच्चशिक्षा, महिलासुरक्षा तथा समाजोन्नतये अहं पूर्णतया वचनबद्धः अस्मि। सः अपि अवदत् यत् महानगरपालिकया प्रदत्तानां योजनानां लाभः जनजनपर्यन्तं प्रापयितुं अस्माकं मुख्यं लक्ष्यं अस्ति।

अस्मिन् अवसरॆ पक्षस्य पदाधिकारीणः, कार्यकर्तारः तथा बहवः स्थानीयनिवासिनः उपस्थिताः आसन्। उल्लेखनीयं यत् वीवीसीएमसी महानगरपालिकायाःआहत्य ११५ आसनेषु निर्वाचनं भविष्यति। अत्र बविआ तथा भाजपा दलयोः मध्ये मुख्यः मुकाबला मन्यते। अत्र १५ जनवरी दिनाङ्के मतदानं तथा १६ जनवरी दिनाङ्के मतगणना भविष्यति।

हिन्दुस्थान समाचार