Enter your Email Address to subscribe to our newsletters

- धान्योपार्जनकेंद्रेषु नोडल अधिकारिभ्यो निरीक्षणाय निर्देशाः
महासमुंदः, 13 जनवरीमासः (हि.स.)। जिल्लाधिकारी विनय कुमार लंगेहोऽद्य मङ्गलवासरे प्रातःकाले समयसीमा उपवेशनम् आहूय शासकीय योजनानां कार्यक्रमाणां च विस्तृतां समीक्षां कृतवान्। तत्र धान्यक्रयस्य प्रगतौ विशेषं बलं दत्तम्, तथैव अवैधधान्यपरिवहनस्य नियन्त्रणार्थं निरन्तरनिगराण्याः निर्देशाः प्रदत्ताः। अस्यां संगोष्ठ्यां जिला पञ्चायतस्य मुख्यकार्यकारी अधिकारी हेमन्त नन्दनवारः, अपरजिलाधिकारी सचिन भूतड़ा , रवि कुमार साहूः , विभागीय जिलाधिकारिणः, जनपदस्य मुख्यकार्यकार्यधिकारिणः, नगरीयनिकायानां मुख्यनगराधिकारिणः तथा वीसी माध्यमेन खण्डस्तरीय अधिकारिणः उपस्थिताः आसन्।
कलेक्टर लंगेहो धान्यक्रयस्य समीक्षां कुर्वन् शासनस्य अभिप्रायानुसारं धान्यक्रयकार्यं पारदर्शितया सुचारुरूपेण च निरन्तरं चालयितुं निर्देशान् दत्तवान्। सः सर्वान् नोडल् अधिकारिणः धान्योपार्जनकेन्द्राणां निरीक्षणं कर्तुं आदेशितवान्। अन्तर्जिलाक्षेत्रेषु, विशेषतः ओडिशा सीमाक्षेत्रे, अधिकसतर्कतां स्थापयितुं बलं दत्तम्। कॅमेरा परीक्षणं, क्षेत्रसमर्पणं, मापनतौलम्, टोकनव्यवस्था इत्यादीनां गहनपरीक्षणं सुनिश्चितं कर्तुं सः अवदत्।
सः अवदत् यत् धान्यक्रयार्थं केवलं त्रयोदश दिनानि शेषाणि सन्ति, अतः सीमान्तकृषकानां प्राथमिकता दातव्या। जिलाधिकारी अवदत् यत् यदि कस्यचित् समितेः अथवा विभागीयकर्मचारिणः अधिकारिणो वा अवैधधान्यव्यवहारे संलिप्तता ज्ञायते, तर्हि तेषां विरुद्धं कठोरकार्यवाही क्रियते।
उपवेशने जिल्लाधिकारी एसआईआर कार्याणां समीक्षां कृत्वा त्रुटिसुधारकार्याणि शीघ्रं पूर्णानि कर्तुं निर्देशान् दत्तवान्। तथैव सांसद् विधायक निधिसम्बद्धकार्याणां समीक्षां कृत्वा तेषु अन्तर्गतानां लम्बितकार्याणां प्राथमिकतया समाप्तिं कर्तुं आदेशितवान्।मुख्यालये आधारआधारितोपस्थितिं अनिवार्यं कृत्वा सर्वान् अधिकारिणः कर्मचारिणः च प्रातः दशवादनात् पूर्वं उपस्थितान् भवितुं निर्देशितवान्।
तत्र पीएमसूर्यघरयोजना, अपार् आईडीप्रगति, आयुष्मान शभारतयोजना, ई-केवाईसी इत्यादिविषयेषु चर्चा अभवत्। जिलाधिकारिणा अधिकारिणः एताः योजनाः समयबद्धरूपेण पूर्णाः कर्तुं आवश्यकान् मार्गनिर्देशाः दत्ताः। तथैव पीएम जनमन, मुख्यमन्त्री जनदर्शन, कलेक्टर जनचौपाल, समयसीमा पत्रकं तथा राजस्वप्रकरणानां समीक्षां कृत्वा गुणवत्तापूर्णनिराकरणं सुनिश्चितं कर्तुं आदेशितवान्।
---------------
हिन्दुस्थान समाचार