(मंत्रिमंडलम्) शिक्षकेभ्यः चतुर्थ क्रमोन्नत वेतनमान योजना प्रवर्तिता,34लक्षोत्तर 322 कोटिमितानि रुप्यकाणि स्वीकृतानि
- मुख्यमंत्रिणो डॉ. यादवस्य अध्यक्षतायां मंत्रि-परिषदःउपवेशनाय बहवोऽभुवन्मुख्यनिर्णयाः भोपालम्, 13 जनवरीमासः (हि.स.) । मध्यप्रदेशस्य मुख्यमन्त्रिणो डॉ. मोहनयादवस्य अध्यक्षतायां मन्त्रिपरिषदःउपवेशनं मङ्गलवासरे मन्त्रालये अभवत्। मुख्यमन्त्री डॉ. याद
मुख्यमंत्री डॉ. मोहन यादव की अध्यक्षता में हुई मंत्री-परिषद की बैठक


मंत्री-परिषद की बैठक के बाद ग्रुप फोटो


- मुख्यमंत्रिणो डॉ. यादवस्य अध्यक्षतायां मंत्रि-परिषदःउपवेशनाय बहवोऽभुवन्मुख्यनिर्णयाः

भोपालम्, 13 जनवरीमासः (हि.स.) । मध्यप्रदेशस्य मुख्यमन्त्रिणो डॉ. मोहनयादवस्य अध्यक्षतायां मन्त्रिपरिषदःउपवेशनं मङ्गलवासरे मन्त्रालये अभवत्। मुख्यमन्त्री डॉ. यादवः सह मन्त्रिपरिषदः सदस्याः अपि टैबलेट् उपकरणैः सह बैठके सम्मिलिताः आसन्।

मन्त्रिपरिषदः शैक्षणिकसंवर्गस्य सहायकशिक्षकाणां शिक्षकाणां च, तथा नवशैक्षणिकसंवर्गस्य प्राथमिकमाध्यमिकशिक्षकाणां कृते १ जुलाई २०२३ तः आरभ्य अथवा तदनन्तरं पञ्चत्रिंशत् वर्षाणि सेवां पूर्णीकृत्य चतुर्थक्रमोन्नतवेतनमानयोजनायाः प्रवर्तनाय स्वीकृतिं दत्तवती। अस्याः कृते ३२२ कोटि ३४ लक्ष रूप्यकाणां वित्तीयस्वीकृतिः प्रदत्ता।

द्वितीयचरणे सांदीपनिविद्यालयानां कृते धनस्वीकृतिःमन्त्रिपरिषदः द्वितीयचरणे द्विशतं सर्वसुविधायुक्तानां सांदीपनिविद्यालयानां स्थापनायै अनुमानितव्ययस्वरूपेण ३६६० कोटि रूप्यकाणां स्वीकृतिं दत्तवती। एतेषां प्रस्तावितविद्यालयानां छात्रक्षमता सहस्राधिकं भविष्यति।

उज्जयिनीनगरस्य जलवर्धनयोजनायै धनस्वीकृतिःसिंहस्थ २०२८ इत्यस्य दृष्ट्या उज्जयिनीनगरस्य जलवर्धनयोजनायाः ११३३ कोटि ६७ लक्ष रूप्यकाणां लागतस्वीकृतिः मन्त्रिपरिषदः द्वारा प्रदत्ता।

सहायकउपनिरीक्षक गौतमस्य परिवाराय श्रद्धानिधिस्वीकृतिःमऊगंजजनपदे घटितायां घटनायां दिवंगतस्य सहायकउपनिरीक्षकस्य रामचरणगौतमस्य परिवाराय ९० लक्ष रूप्यकाणां श्रद्धानिधिदानस्य स्वीकृतिः प्रदत्ता। पूर्वं १ अप्रेल २०२५ तिथौ १० लक्ष रूप्यकाणां विशेषानुग्रहराशिः तस्य परिवाराय प्रदत्ता आसीत्।शाहपुरथानान्तर्गत गडराग्रामे समुदायस्य जनैः किञ्चन कुटुम्बं बन्धकं कृतम्। गृहे एकस्य व्यक्तेः मृत्योरनन्तरं शवग्रहणसमये समुदायेन पुलिसबलस्य उपरि आक्रमणं कृतम्। तस्मिन्नाक्रमणे गौतमः स्वप्राणान् उपेक्ष्य कर्तव्यपालनं कृत्वा वीरगतिं प्राप्तवान्।

व्यापारमेलासु ऑटोमोबाइल् विक्रये मोटरयानकरे पञ्चाशत्प्रतिशतशैथिल्यस्वीकृतिःमन्त्रिपरिषदः ग्वालियरव्यापारमेला २०२६ तथा उज्जयिनी विक्रमोत्सवव्यापारमेला २०२६ इत्येतयोः ऑटोमोबाइल् विक्रये मोटरयानकरे पञ्चाशत्प्रतिशतछूटप्रदानाय स्वीकृतिं दत्तवती।

सौरसहभण्डारणविद्युत्प्रदायपरियोजनायाः स्वीकृतिःप्रदेशस्य ऊर्जावश्यकतानां पूर्तये त्रयाणां सौरसहभण्डारणविद्युत्प्रदायपरियोजनानां स्वीकृतिः प्रदत्ता। रीवाअल्ट्रामेगासोलरलिमिटेड् द्वारा विकसितायां परियोजनायां अन्तर्गतं चतुर्घण्टात्मक ३०० मेगावाट्, षड्घण्टात्मक ३०० मेगावाट् तथा चतुर्विंशतिघण्टात्मक २०० मेगावाट् विद्युत्प्रदायाय एकचक्रआधारित ऊर्जा भण्डारणव्यवस्था स्वीकृता। अस्याः परियोजनायाः माध्यमेन राज्ये उच्चमागणीसमये अपि सुलभा स्वच्छा विश्वासार्हा च विद्युत् उपलब्धा भविष्यति।

सौरऊर्जसो दिनकाले एव उपलब्धता भवति तथा सा मौसमाधीना अस्ति। तथैव पवनऊर्जायाः उपलब्धता अपि अनिश्चितैव, यतः सा पवनस्य वेगोपलब्ध्यधीनाऽस्ति। मध्यप्रदेशे नवकरणीयऊर्जसो वर्धमानहिस्सेदारी, ग्रिडस्थैर्यस्य आवश्यकता, उच्चमागणीव्यवस्थापनं तथा अहर्निशं विद्युत्प्रदायस्य सुनिश्चित्यर्थं ऊर्जा भण्डारणपरियोजनानां स्थापना अत्यावश्यकी अस्ति।

सिंचनपरियोजनाभ्यः धनस्वीकृतिःमन्त्रिपरिषदः राजगढरायसेनजनपदयोर् सिंचनपरियोजनाभ्यः ८९८ कोटिरूप्यकाणामधिकं स्वीकृतिं दत्तवती। राजगढजनपदे सारंगपुरतहसीलायां मोहनपुराविस्तारीकरणसिंचनपरियोजनायाः ३९६ कोटि २१ लक्ष रूप्यकाणां प्रशासकीयस्वीकृतिः प्रदत्ता। अनेन २६ ग्रामेषु ११०४० हेक्टेयरभूमौ सिंचनसुविधा भविष्यति तथा १०४०० कृषकपरिवाराः लाभान्विताः भविष्यन्ति।

रायसेनजनपदे सुल्तानपुरोद्धवनसिंचनपरियोजनायाः ११५ कोटि ९९ लक्ष रूप्यकाणां स्वीकृतिः प्रदत्ता, येन २० ग्रामेषु ५७०० हेक्टेयरभूमौ ३१०० कृषकपरिवाराः लाभं प्राप्स्यन्ति।तथैव बरेलीतहसीलायां बारणोद्धवनसिंचनपरियोजनायाः ३८६ कोटि २२ लक्ष रूप्यकाणां स्वीकृतिः प्रदत्ता, येन ३६ ग्रामेषु १५००० हेक्टेयरभूमौ ६८०० कृषकपरिवाराः लाभान्विताः भविष्यन्ति।

मध्यप्रदेश स्पेसटेक नीति २०२६ स्वीकृतिःप्रदेशे उपलब्धानां ३२२ औद्योगिकउद्यानानां इलेक्ट्रॉनिक्सनिर्माणसमूहानां ३१ गीगावाट् विद्युत्प्रदायस्य उत्कृष्टशैक्षणिकसंस्थानानां च संसाधनानां आधारं कृत्वा अन्तरिक्षग्रेडनिर्माणस्य सम्भावनां दृष्ट्वा मन्त्रिपरिषदः मध्यप्रदेश स्पेसटेक नीति २०२६ लागूकरणाय स्वीकृतिं दत्तवती। एषा नीति उपग्रहनिर्माणे भूस्थानिकविश्लेषणे तथा डाउनस्ट्रीम अनुप्रयोगेषु नवाचारं प्रोत्साहयिष्यति। आगामिषु पञ्चवर्षेषु १००० कोटिरूप्यकनिवेशः तथा ८००० जीविकासृजनं भविष्यति। अस्याः अनुमानितवित्तीयभारः ६२८ कोटिरूप्यकाणि भविष्यति।अनेन मध्यप्रदेशः अन्तरिक्षप्रौद्योगिकीक्षेत्रे सुदृढकेन्द्ररूपेण विकसितुं अग्रसरः भविष्यति।

मुख्यमन्त्री शहरी अधोसंरचना विकास योजना पंचमचरण स्वीकृतिःप्रदेशस्य सर्वेषु नगरीयनिकायेषु अधोसंरचनाविकासाय मुख्यमन्त्री शहरी अधोसंरचना विकास योजना पंचमचरणं त्रिवर्षकालाय ५00० कोटिरूप्यकाणां स्वीकृतिः प्रदत्ता। अस्याः योजनायाः अन्तर्गतं मार्गनिर्माणं मार्गसुरक्षा शहरीयातायातसुधारः शतप्रतिशतजलप्रदायः सीवरेजव्यवस्था एसटीपीनिर्माणं च कर्तुं शक्यते। योजनायाः क्रियान्वयनं नगरीयनिकायैः भविष्यति। एतेन नगराणां आवश्यकाधोसंरचनाः उपलब्धाः भविष्यन्ति।

अन्यनिर्णयाःमन्त्रिपरिषदः वित्तीयवर्षस्य २०२६ २७ आबकारीनीतिनिर्धारणार्थं मन्त्रिपरिषद्समितेः गठनाय स्वीकृतिं दत्तवती।

हिन्दुस्थान समाचार