Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 13 जनवरीमासः (हि.स.)।
दिल्लीविधानसभायाः अध्यक्षः विजेन्द्रगुप्तः मङ्गलवासरे ६ जनवरी तिथौ विपक्षनेतृभिः प्रयुक्तैः अमर्यादितैः आपत्तिजनकैः शब्दैः उत्पन्ने वर्तमानघटनाक्रमे विषये अवदत् यत् पञ्जाबपुलिसेन दशदिनात्मकः समयः याचितः, किन्तु प्रकरणस्य गाम्भीर्यं दृष्ट्वा दिल्लीविधानसभासचिवालयेन केवलं त्रिदिनात्मकः समयः, अर्थात् १५ जनवरीपर्यन्तं, प्रतिवेदनप्रस्तुतेः कृते प्रदत्तः।
विजेन्द्रगुप्तः दिल्लीसचिवालये आयोजितायां पत्रकारवार्तायां उक्तवान् यत् दिल्लीविधानसभासचिवालयेन अस्मिन् विषयये स्वपक्षं स्पष्टयितुं पञ्जाबपुलिसायै अष्टचत्वारिंशत् होराणां (४८ घण्टानाम्) समयः प्रदत्तः आसीत्, यस्य प्रत्युत्तररूपेण तैः दशदिनात्मकः समयः याचितः।
अध्यक्षः अवदत् यत् विधानसभासचिवालयेन पञ्जाबस्य डीजीपी, विशेषडीजीपी (सायबरसेल्) तथा जालन्धरनगरस्य पुलिसआयुक्ताय सूचनापत्राणि प्रेषितानि सन्ति। पञ्जाबपुलिसेन एतदपि उक्तं यत् एफआइआर् पञ्जीकरणं तथा फोरेन्सिकपरीक्षणं केषाञ्चन होराणां मध्ये एव सम्पन्नं कृतम्, तथापि विधानसभायाः सूचनायाः प्रत्युत्तरदाने दशदिनात्मकः समयः याचितः। अध्यक्षः उक्तवान् यत् एतेन अनुसन्धानसंस्थायाः स्वातन्त्र्ये निष्पक्षतायां च गम्भीराः प्रश्नाः उत्पद्यन्ते। अतः प्रकरणस्य गाम्भीर्यं दृष्ट्वा सचिवालयेन स्पष्टं कृतं यत् सम्पूर्णप्रतिवेदनप्रस्तुतेः कृते केवलं त्रिदिनात्मकः समयः एव प्रदीयते।
गुप्तः अवदत् यत् एतत् प्रकरणं दिल्लीविधानसभायाः अधिकारक्षेत्रे एव वर्तते तथा च सर्वाणि मूलदृश्यचित्राणि (वीडियो) तथा दस्तावेजाः विधानसभायाः सम्पत्तिः सन्ति। सः प्रश्नान् उदतिष्ठत् यत् पञ्जाबसरकारया फोरेन्सिकपरीक्षणं कथं प्रारब्धम्, आदेशः केन केन आधारेण च प्रदत्तः, तथा कस्य दृश्यसामग्री परीक्षणार्थं गृहीता, यदा न विधानसभया सह सम्पर्कः कृतः आसीत्, न च कश्चन दस्तावेजः याचितः।
प्रकरणं विधिकदृष्ट्या अतीव संवेदनशीलं तथा जनभावनाभिः साक्षात् सम्बद्धं इति वर्णयित्वा अध्यक्षः अवदत् यत् एषः घटनाक्रमः स्पष्टतया राजनैतिकहस्तक्षेपस्य सूचकः अस्ति, यः दिल्लीविधानसभायां विपक्षभूमिकायां स्थितैः व्यक्तिभिः क्रियते। सः अवदत् यत् सदनस्य गरिमां दुर्बलयितुं कृतां काञ्चन षड्यन्त्रं कदापि न सह्यते।
अध्यक्षः अवदत् यत् ६ जनवरी तिथेः घटना सदनस्य कार्यसञ्चालनं गम्भीरतया बाधितवती, तथा च विपक्षनेतुः सदने अनुपस्थितेः कारणेन निरन्तरं व्यवधानानि अभवन्।
सः अवदत् यत् ७ जनवरी तिथौ सदनकार्यवाहिसम्बद्धं दृश्यचित्रं दृष्ट्वा स्पष्टं जातं यत् विपक्षेन कृताभिः टिप्पणिभिः जनानां भावनाः आहताः सन्ति, विशेषतः यतः ताः पूज्यगुरूणां प्रति अनादररूपेण दृष्टाः। सदस्याणां सर्वसम्मतिः आसीत् यत् विपक्षनेता सदनं आगच्छेत् तथा च निरुपाधिकं क्षमायाचनां कुर्यात्, किन्तु तत् न कृतम्। परिणामतः ६, ७ तथा ८ जनवरी तिथिषु सदनकार्यवाही बाधिता आसीत्।
विजेन्द्रगुप्तः अग्रे अवदत् यत् प्रकरणस्य गाम्भीर्यं तथा भावनात्मकपक्षं दृष्ट्वा ८ जनवरी तिथौ निर्णयाः गृहीताः, तथा च विपक्षस्य एव अनुरोधेन दृश्यसामग्री फोरेन्सिक् सायन्स् प्रयोगशालायै (एफएसएल्) परीक्षणार्थं प्रेषिता।
---------------
हिन्दुस्थान समाचार