अरुणाचल प्रदेशस्य सिक्किमस्य च राज्यपालयोः शिष्टाचारमेलनम्
गंगटोकः, 13 जनवरीमासः (हि.स.)। अरुणाचलप्रदेशस्य राज्यपालः लेफ्टिनेंट् जनरल् (सेवानिवृत्तः) कैवल्या त्रिविक्रम परनाइक महोदयः मङ्गलवासरस्य प्रातःकाले राजधानी गंगटोकस्थिते लोकभवने सिक्किमस्य राज्यपालं ओमप्रकाश माथुर महोदयम् शिष्टाचारभेटं कृतवान्। अ
Governor of Sikkim and arunachal pradesh


गंगटोकः, 13 जनवरीमासः (हि.स.)।

अरुणाचलप्रदेशस्य राज्यपालः लेफ्टिनेंट् जनरल् (सेवानिवृत्तः) कैवल्या त्रिविक्रम परनाइक महोदयः मङ्गलवासरस्य प्रातःकाले राजधानी गंगटोकस्थिते लोकभवने सिक्किमस्य राज्यपालं ओमप्रकाश माथुर महोदयम् शिष्टाचारभेटं कृतवान्। अस्मिन् अवसरॆ राज्यपालः माथुर महोदयः अरुणाचलप्रदेशस्य राज्यपालस्य लोकभवने हार्दिकं स्वागतं कृतवान्।

एतस्याः भे्टेः समये उभयोः राज्यपालयोः मध्ये सिक्किम अरुणाचलप्रदेशयोः मध्ये सांस्कृतिक, सामाजिक तथा विकासात्मक सहकार्यसम्बद्धेषु विविधेषु विषयेषु विस्तृतः विचारविमर्शः अभवत्। तथैव पूर्वोत्तरप्रदेशस्य विशिष्टताः, समानाः सरोकाराः तथा परस्परसहकार्यस्य सम्भावनाः अपि गहनतया चर्चिताः।

लोकभवनेन निर्गतायाः विज्ञप्तेः अनुसारं अस्मिन् अवसरॆ उभौ राज्यपालौ परस्परं स्मृतिचिह्नानि अपि अर्पितवन्तौ।

उल्लेखनीयं यत् अरुणाचलप्रदेशस्य राज्यपालः लेफ्टिनेंट् जनरल् (सेवानिवृत्त) कैवल्या त्रिविक्रम परनाइक महोदयः ११ जनवरी दिनाङ्के सिक्किमस्य त्रिदिवसीय यात्रायै गंगटोकं प्राप्तवान् आसीत्। स्वप्रवासकाले रविवासरे सः भारतीयसेनायाः गंगटोकस्थितायाः ब्लैक् कैट् डिवीजनस्य पञ्चषष्टितमस्थापनादिवससमारोहॆ सहभागितां कृतवान्।

अस्यैव क्रमॆ सोमवासरे सिक्किमस्य मुख्यमन्त्री पी एस तामाङ्ग महोदयः अपि लोकभवने राज्यपालं के टी परनाइकं शिष्टाचारमेलनं कृतवान्।

---------------

हिन्दुस्थान समाचार