Enter your Email Address to subscribe to our newsletters

श्रीनगरम्, 13 जनवरीमासः(हि.स.)।
कश्मीरप्रदेशस्य पुलिसमहानिरीक्षकः विधिकुमारबर्डीः मङ्गलवासरे लोहड़ीमकरसंक्रान्त्योः शुभावसरयोः सर्वेभ्यः हार्दिकाः शुभेच्छाः प्रेषितवान्।
पुलिसमहानिरीक्षकः एकस्मिन् लेखे सर्वेषां कृते सौहार्दं, आनन्दं तथा समृद्धिं कामितवान्। तेन लेखे लिखितं यत्
“लोहड़ीमकरसंक्रान्त्योः शुभावसरयोः हार्दिकाः शुभेच्छाः। एते उत्सवाः सर्वेषां कृते सौहार्दं, आनन्दं तथा समृद्धिं वहन्तु।”
---------------
हिन्दुस्थान समाचार