Enter your Email Address to subscribe to our newsletters

राञ्ची, 13 जनवरीमासः (हि.स.)। मकर-संक्रान्ति-पावन-अवसरे सिद्धू-कान्हू-उद्यानस्य समीपे हातमा-स्थिते निरंजन-कॉम्प्लेक्से ब्लूकार्ट-संस्थायाः नूतन-भाण्डारस्य भव्यं लोकार्पणं 14 जनवरी-दिने भविष्यति। “जनजातीय-कला विश्वपटलं प्रति नेयामः” इति सन्देशेन प्रारब्धस्य अस्य भाण्डारस्य उद्घाटनं केन्द्रीय-मन्त्री जुएल् उरांवः करिष्यति।
ब्लूकार्ट-भाण्डारे भारतस्य विविधा पारम्परिकाः जनजातीयाः च कलाः दर्शनीयाः सन्ति। भाण्डारे प्रदर्शितासु कला-विधासु ओडिशा-प्रदेशस्य पटचित्र-कला, झारखण्डस्य खोवर-कला तथा सोहराय-कला, ओडिशा–झारखण्ड-प्रदेशयोः सौरा-कला, तथा प्राचीन-धातु-परम्परायां प्रतिष्ठिता डोकरा-कला इत्यादयः बहवः अद्भुताः कलारूपाः समाविष्टाः सन्ति।
अयं भाण्डारः हस्तनिर्मितानां, प्राकृतिक-वर्णैः तथा पारम्परिक-प्रविधिभिः निर्मितानां कलानां संरक्षणं, संवर्धनं च कर्तुं एकं महत्त्वपूर्णं प्रयासं भवति।
हिन्दुस्थान समाचार