Enter your Email Address to subscribe to our newsletters

भोपालम्, 13 जनवरीमासः (हि.स.)। मध्यप्रदेशे माननीयमुख्यमन्त्री डॉ. मोहनयादवेन स्वच्छजल-अभियानस्य अन्तर्गतं नागरिकेभ्यः शुद्धपेयजलस्य उपलब्ध्यर्थं ये निर्देशाः दत्ताः, तेषां परिपालनार्थं भोपाल-नगरनिगमेन नगरवासिनां जलसम्बन्धी-शिकायतानां शीघ्र-निवारणाय तथा जलपरीक्षणाय अद्य मङ्गलवासरे प्रातः एकादशवादनतः मध्यान्हे एकवादनपर्यन्तं प्रत्येकवार्डकार्यालये “जलसुनवाई” आयोजिता भविष्यति।
जलसुनवाईकाले नागरिकेभ्यः जलसम्बन्धी-शिकायतानां त्वरितनिराकरणस्य सुविधया सह विभिन्नमानकानुसारं जलपरीक्षणार्थं नमूनासंग्रहणस्य अपि व्यवस्था भविष्यति।
नगरनिगमायुक्ता संस्कृतिजैनः अवदत् यत् भोपाल-नगरे नगरनिगमस्य सर्वेषु वार्डकार्यालयेषु अद्य जलसुनवाई आयोजिता अस्ति। एषा जलसुनवाई प्रति-मङ्गलवासरे प्रातः एकादशवादनतः मध्यान्हे एकवादनपर्यन्तं आयोजिता भविष्यति। अस्मिन्काले नागरिकाः जलसम्बन्धी-शिकायतानां शीघ्रं समाधानं प्राप्स्यन्ति।
नगरनिगमेन नागरिकेभ्यः जलपरीक्षणस्य सुविधा अपि प्रदीयते। नागरिकाः जलसुनवाईकाले जलनमूनानि निगमकर्मिभ्यः दातुं शक्नुवन्ति। एतेषां जलनमूनानां सामान्यमानकानुसारं—वर्णः, स्वादः, गन्धः, पीएच्, कुलक्षारीयता, क्लोराइड्, कुलकठोरता, कैल्शियमकठोरता, मैग्नीशियमकठोरता, टीडीएस्, टर्बिडिटी, तथा एव अवशिष्ट-क्लोरीन, कोलीफॉर्म्, ई-कोलाई इत्यादीनां मानकानां आधारेण जलपरीक्षणं क्रियते।
हिन्दुस्थान समाचार