Enter your Email Address to subscribe to our newsletters


- सीपीपीपी मॉडल के माध्यम से सहकारिता संस्थाओं को व्यवसायिक रूप से सशक्त बनाने के निर्देश
भोपालम्, 13 जनवरीमासः (हि.स.)।मध्यप्रदेशस्य सहकारिता-मन्त्री विश्वासः कैलाशः सारंगः मङ्गलवासरे अपेक्स-बैङ्के सहकारिता-विभागस्य संभागेषु पदस्थापितानां संयुक्त-आयुक्तानां तथा जनपदेषु पदस्थापितानाम् उप-आयुक्तानां एवं सहायक-आयुक्तानां विस्तृतां समीक्षाम् अकरोत्। अस्मिन् अवसरे विभागस्य वर्तमान-स्थितेः, प्रगतिः तथा आगामी-कार्ययोजनायाः सम्यक् अवलोकनं कृत्वा आवश्यकान् दिशा-निर्देशान् अदात्।
उपवेशने प्रमुख-सचिवः (सहकारिता) डी.पी. आहूजाः, सहकारिता-आयुक्तः मनोजः पुष्पः, प्रबन्ध-निदेशकः (उपभोक्ता-संघः) ऋतुराजः रंजनः, प्रबन्ध-निदेशकः (बीज-संघः) महेन्द्रः दीक्षितः, प्रबन्ध-निदेशकः (अपेक्स-बैङ्कः) मनोजः गुप्तः तथा विभागस्य अन्ये वरिष्ठ-अधिकारीणः उपस्थिताः आसन्।
ई-पैक्स् एवं पटल-आधारित-अंकेक्षणस्य विस्तृता समीक्षा
उपवेशने ई-पैक्स् तथा पटल-आधारित-अंकेक्षणस्य प्रगतिः, पैक्स्-पुनर्गठनं, सहकारी-संस्थाः वित्तीय-स्थिति, प्रशासनिक-सुधाराः इत्यादि विषयेषु विस्तृतः विचार-विमर्शः अभवत्। मन्त्री सारंगः स्पष्टं निर्देशं दत्तवान् यत् मासान्ते प्रदेशस्य सर्वाः पैक्स् शत-प्रतिशतं ई-पैक्स्-प्रणाली अन्तर्गतं आनयितव्याः। ई-पैक्स्-व्यवस्थया पारदर्शिता वर्धते तथा कृषकाणां सदस्याणां च समयबद्धाः सेवाः उपलब्धाः भवन्ति इति सः अवदत्।
जिलेषु आई.टी. सेल्, नवाचार-सेल् तथा सीपीपीपी-सेल् गठनस्य विषये मन्त्रीणा निर्देशाः दत्ताः यत् एते सर्वे विशेष-प्रकोष्ठाः सक्रियाः भवन्तु, तेषां कार्यस्य पाक्षिक-समीक्षा क्रियेत तथा उच्चस्तरे प्रतिवेदनं प्रस्तुत्येत, येन योजनानां क्रियान्वयने निरन्तरा निगराणी भवेत्।
सीपीपीपी-मॉडलस्य माध्यमेन परिणामोन्मुखं कार्यम्
मन्त्री सारंगः अवदत् यत् सर्वे मैदानी-अधिकारीणः सीपीपीपी-मॉडलम् आचरन्तु तथा सहकारिता-संस्थाः आर्थिकरूपेण आत्मनिर्भराः एवं व्यवसायिकरूपेण सक्षमाः कुर्वन्तु। संयुक्त-आयुक्तान् सः निर्देशितवान् यत् संभाग-स्तरे प्रतिष्ठितैः सफलैः व्यवसायिभिः सह बैठकाः आयोजनीयाः तथा सीपीपीपी-मॉडलस्य अन्तर्गतं ओडीओपी (एकः जिला–एकः उत्पादः) योजना अवश्यं समावेशनीया।
सः अपि अवदत् यत् संयुक्त-आयुक्ताः पैक्स्, जिला-सहकारी-संघाः, जिला-थोक-भण्डाराः, मार्केटिङ्-सोसाइट्यः तथा नवाचार-अन्तर्गतं गठिताः सहकारी-संस्थाः सक्रियाः कर्तुं स्पष्टाः, समयबद्धाः एवं व्यावहारिकाः कार्य-योजनाः निर्मायन्तु।
ई-पैक्स् क्रियान्वयने मानव-संसाधनस्य विशेष-ध्यानम्
मन्त्री सारंगः अवदत् यत् ई-पैक्स्-प्रणाल्याः सफलं सुचारुं च क्रियान्वयनाय प्रशिक्षितं तथा तकनीकी-दक्षं मानव-संसाधनं अनिवार्यं अस्ति। सः निर्देशं दत्तवान् यत् सर्वेषु जिलेषु संगणक-दक्ष-कर्मचारिणां उपलब्धता सुनिश्चिता क्रियेत, मानव-संसाधन-अभावः शीघ्रं निराक्रियेत, आवश्यक-पदेषु भर्ती-प्रक्रिया एम.पी. ऑनलाइन माध्यमेन आरभ्येत तथा नियुक्त-कर्मचारिणां ई-पैक्स्-प्रणाल्याः समुचितं प्रशिक्षणं दातव्यम्।
सहकारितायाः डिजिटल् एवं नवाचारी-स्वरूपस्य संकल्पः
मन्त्री सारंगः अवदत् यत् सहकारिता-विभागं डिजिटल्, नवाचारीं एवं पारदर्शीं व्यवस्थां कर्तुं राज्य-सरकारस्य प्राथमिकता अस्ति। सः अधिकारिभ्यः अपेक्षां व्यक्तवान् यत् सर्वाः योजनाः लक्ष्य-आधारिताः, समयबद्धाः तथा परिणामोन्मुख्याः रीतेः क्रियान्विताः क्रियन्ताम्, येन सहकारिता-संस्थाः सशक्ताः भवन्तु तथा कृषकाः, उपभोक्तारः एवं सामान्य-नागरिकाः प्रत्यक्षं लाभं प्राप्नुवन्तु।
हिन्दुस्थान समाचार