Enter your Email Address to subscribe to our newsletters

बक्सरः, 13 जनवरीमासः (हि.स.)।
ब्लड् बक्सर् नामक संस्थया “रक्तदानं महादानं, जीवनदानम्” इति उद्देश्येन सोमवासरे रक्तदाता निलभस्य जन्मदिवसावसरे रक्तदान-शिविरस्य आयोजनं कृतम्। तस्य उद्घाटनं सदर-अनुमण्डलाधिकारी अविनाशकुमारः, रेडक्रॉस्-संघस्य अध्यक्षः सुरेश-अग्रवालः तथा च डॉ. प्रियङ्का-पाण्डेया इत्येतेषां करकमलैः अभवत्।
अस्मिन् शिविरे समग्रतः षोडश रक्तवीराः स्वेच्छया रक्तदानं कृतवन्तः। सदर-अनुमण्डलाधिकारी अविनाशकुमारः अवदत् यत् रक्तदानेन कस्यचित् जीवनं रक्षितुं शक्यते, रक्तस्य च कश्चन विकल्पो नास्ति। सः ब्लड् बक्सर् संस्थायाः कार्येभ्यः प्रभावितः सन् आर्थिक-सहयोग-राशिमपि दत्तवान्।
ब्लड् बक्सर् संस्थायाः संस्थापकः प्रियेशः रक्तदानस्य स्वास्थ्यलाभान् प्रकाशयामास। अन्ते रक्तदातॄणां मोमेण्टो-प्रमाणपत्रप्रदानपूर्वकं सम्मानं कृतम्।
अस्मिन् अवसरे रिशु-जयसवालः, अखिलेश-रायः, कुमार-गौरवः, प्रविव्-रञ्जनः, प्रभात-कुमारः, अनूप-कुमारः, संजय-पटवा, मोहम्मद्-हलीमः, रवि-शङ्करः, बिनोद-वर्मा, मोहम्मद्-इजहारः, मोहम्मद्-आरिफः, दीपक-कुमारः, जय-प्रकाश-कुमारः, विकाश-कुमारः, मनोज-कुमारः इत्येते रक्तदानं कृतवन्तः।
---------------
हिन्दुस्थान समाचार