नंदीग्रामे अभिषेकस्य ‘सेवाश्रय’ स्वास्थ्य शिविरं शुभारब्धम्, हुतात्मपरिवारः करिष्यति उद्घाटनम्
पूर्व मेदिनीपुरम्, 14 जनवरीमासः (हि.स.)। डायमण्ड-हार्बर-प्रदेशानन्तरं इदानीं नन्दीग्रामे अपि तृणमूल-काङ्ग्रेस-दलस्य राष्ट्रियमहासचिवस्य अभिषेक-बनर्जेः प्रयत्नेन‘सेवाश्रय-स्वास्थ्य-शिविरस्य’ आरम्भः कर्तुं निश्चितः अस्ति। गुरुवासरादारभ्य नन्दीग्राम-
नंदीग्राम सेवाश्रय


पूर्व मेदिनीपुरम्, 14 जनवरीमासः (हि.स.)।

डायमण्ड-हार्बर-प्रदेशानन्तरं इदानीं नन्दीग्रामे अपि तृणमूल-काङ्ग्रेस-दलस्य राष्ट्रियमहासचिवस्य अभिषेक-बनर्जेः प्रयत्नेन‘सेवाश्रय-स्वास्थ्य-शिविरस्य’ आरम्भः कर्तुं निश्चितः अस्ति। गुरुवासरादारभ्य नन्दीग्राम-विधानसभा-क्षेत्रे प्रथमचरणे द्वयोः ब्लॉकेषु द्वौ आदर्श-स्वास्थ्य-शिविरौ स्थाप्येते। नन्दीग्राम-भूमिरक्षा-आन्दोलनकाले गोलीकाण्डे शहीदत्वं प्राप्तानां जनानां परिवारजनाः एतेषाम् आदर्श-शिविराणां उद्घाटनं करिष्यन्ति।

तृणमूल-सूत्राणाम् अनुसारं अभिषेक-बनर्जी अपराह्णे उभयोः शिविरयोः निरीक्षणमपि करिष्यति। एषः सेवाश्रय-स्वास्थ्य-शिविरः १५ जनवरीतः ३० जनवरीपर्यन्तं प्रवर्तिष्यते। एकः आदर्श-शिविरः नन्दीग्राम-बाइपास-समीपवर्तिनि प्रदेशे स्थाप्यते, अपरः तु खोड़ामबाड़ी-क्षेत्रे। यथा डायमण्ड-हार्बर-लोकसभा-क्षेत्रे सेवाश्रयस्य आदर्श-शिविराणि आयोजितानि आसन्, तथैव नन्दीग्रामे अपि एतेषां शिविराणां व्यवस्था कृता अस्ति। उल्लेखनीयं यत् अद्यापि डायमण्ड-हार्बरे सेवाश्रय-नामकौ द्वौ स्वास्थ्य-शिविरौ सञ्चालितौ स्तः।

नन्दीग्राम-निवासिनां तथा स्थानीय-तृणमूल-नेतृणां कार्यकर्तॄणां च दीर्घकालादेव एषा अपेक्षा आसीत् यत् अत्रापि डायमण्ड-हार्बरवत् व्यापकः स्वास्थ्य-शिविरम् आयोजितं स्यात्। एतां याचनां स्वीकृत्य अभिषेक-बनर्जी-महोदयः नन्दीग्राम-विधानसभा-क्षेत्रे सेवाश्रय-शिविरस्य आयोजनाय पहलं कृतवान्।

अल्पसमयस्य कारणात् सम्प्रति केवलं द्वौ आदर्श-शिविरौ एव स्थाप्येते, किन्तु एतेषु ताः सर्वाः स्वास्थ्य-सेवाः उपलब्धाः भविष्यन्ति याः डायमण्ड-हार्बर-स्थितेषु सेवाश्रय-शिविरेषु दीयन्ते। एकस्य आदर्श-शिविरस्य दायित्वं तृणमूल-नेता ऋजु-दत्त-महोदयाय दत्तम् अस्ति, अपरस्य तु कोलकाता-नगर-निगमस्य तृणमूल-पार्षदः सुशान्त-घोष-महोदयः पर्यवेक्षणं करिष्यति।

ऋजु-दत्त-महोदयः अवदत् यत् आदर्श-शिविरे आईसीयू-सुविधा सह यूएसजी, ईसीजी, एक्स-रे, रक्त-परीक्षणादीनां विविधानां परीक्षणानां व्यवस्था भविष्यति। आवश्यकतायां सति सीटी-स्कैन-सुविधाऽपि उपलब्धा करिष्यते। तथा च रेफरल-प्रणाली अपि प्रवर्तिष्यते। प्रत्येकस्मिन् शिविरे न्यूनातिन्यूनं दश विशेषज्ञ-चिकित्सकाः उपस्थिताः भविष्यन्ति। प्रथम-सप्तदिनानन्तरं अनुवर्तन-उपचारार्थं उभयोः शिविरयोः पृथक्-पृथक् पुनरवलोकन-कक्षाः (रिव्यू-बूथ) अपि उद्घाटिताः भविष्यन्ति।

डायमण्ड-हार्बर-स्थितेषु सेवाश्रय-शिविरेषु इव नन्दीग्रामे अपि नेत्र-रोग-विशेषज्ञाः, बाल-रोग-विशेषज्ञाः, मेडिसिन-विशेषज्ञाः इत्यादयः विविधानां विभागानां चिकित्सकाः सेवा दास्यन्ति। प्रत्येकस्मिन् शिविरे स्वास्थ्यकर्मिणः तकनीशियनाः च सहित्य प्रायः पञ्चाशत्-षष्टि-जनाः नियुक्ताः भविष्यन्ति। अतिरिक्तरूपेण पञ्जीकरणात् आरभ्य रोगिणां सहाय्यार्थं शताधिकाः स्वयंसेवकाः अपि उपस्थिताः भविष्यन्ति।

तृणमूल-नेतृत्वस्य मतम् अस्ति यत् एतेषु द्वयोः आदर्श-शिविरेषु न केवलं नन्दीग्राम-विधानसभा-क्षेत्रात्, अपि तु पूर्व-मेदिनीपुर-जनपदस्य अन्येभ्यः विधानसभा-क्षेत्रेभ्यः अपि जनाः उपचारार्थं आगन्तुं शक्नुवन्ति। एतां सम्भावनां दृष्ट्वा एव व्यापकाः पूर्वतयार्यः कृताः सन्ति।

---------------

हिन्दुस्थान समाचार