Enter your Email Address to subscribe to our newsletters

कोलकाता, 14 जनवरीमासः (हि. स.)।मकरसङ्क्रान्त्यवसरे बुधवासरस्य प्रभातादेव कोलकातानगरं हावडानगरं च सहित्य गङ्गातटवर्तिषु प्रदेशेषु श्रद्धालूनां महत् समागमः दृश्यते स्म। गङ्गास्नानाय जनानां उत्साहः प्रभातकालात् मध्यान्हपर्यन्तं निरन्तरं आसीत्। बहवः श्रद्धालवः पुण्यस्नानाय पूजाऽर्चनाय च घाटेषु आगतवन्तः।
यद्यपि अस्मिन् वर्षे मकरसङ्क्रान्तेः शुभमुहूर्तः रात्रौ अष्टवादनानन्तरं आरभ्य अनन्तरदिने मध्यान्हे द्वादशवादनपर्यन्तं भविष्यति, तथापि परम्परानुसारं चतुर्दशजनवरीदिने एव पर्व आचर्यते इति कारणात् श्रद्धालवः सोमवासरे गङ्गास्नानं कृतवन्तः। हावडानगरात्, हुगलीनगरात्, कोलकातानगरात्, उत्तरचतुर्विंशतिपरगणाजनपदात् अपि तथा नदियाजनपदं सहित्य अन्येभ्यः जिलाभ्यः जनाः गङ्गायाः उभयोः तटयोः आगतवन्तः।
घाटेषु स्त्रियः, पुरुषाः, युवानः, वृद्धाः च बहुसङ्ख्यायां उपस्थिताः आसन्। श्रद्धालवः गङ्गायां अवगाहनं कृत्वा पूजाऽर्चनां कृतवन्तः। अस्मिन् समये घाटेषु बहवः पुरोहिताः अपि उपस्थिताः आसन्, ये वैदिकरीत्यानुसारं पूजां क्रियाकर्म च सम्यक् सम्पन्नवन्तः।
पुरोहितः भीमबनर्जी अवदत् यत् परम्परानुसारं पञ्चदशदिसम्बरमासात् चतुर्दशजनवरीमासपर्यन्तं कालः ‘खरमास’ इति कथ्यते, यः पितृपक्षस्यैव एकः अंशः मन्यते। अस्मिन् काले शुभकार्याणि न क्रियन्ते। मकरसङ्क्रान्तिदिने पुण्यस्नानेन सह अयं कालः समाप्तः भवति, ततः परं शुभकार्याणां आरम्भः क्रियते। एतस्मात् कारणात् अस्मिन् दिने गङ्गास्नानस्य विशेषं महत्त्वं विद्यते।
सः अपि अवदत् यत् गङ्गासागरे स्नानस्य स्वकीयः विशिष्टः धार्मिकः महिमा अस्ति, किन्तु मान्यता अस्ति यत् राज्ञः सगरस्य षष्टिसहस्राणां पुत्राणां यस्यां गङ्गायां मुक्तिः प्राप्ता, तस्यां गङ्गायां कुत्रापि स्नानेन पुण्यलाभः भवति। एतादृश्याः आस्थायाः प्रभावेण सोमवासरे गङ्गातटवर्तिषु नगरेषु ग्रामेषु च सहस्रशः श्रद्धालवः गङ्गास्नानाय आगतवन्तः।
हिन्दुस्थान समाचार