Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 14 जनवरीमासः (हि.स.)।
दिल्लीराज्यस्य स्वास्थ्यपरिवारकल्याणमन्त्री डा पंकजकुमारः सिंहः बुधवासरे मालवीयनगरस्थिते भीमनगर्यां आयुष्मान् आरोग्यमन्दिरस्य उद्घाटनं कृतवान्। तेन उक्तं यत् आयुष्मान् आरोग्यमन्दिरं सर्वविधैः चिकित्सासुविधाभिः सुसज्जीकृत्य आधुनिकं प्राथमिकस्वास्थ्यसेवाकेन्द्ररूपेण विकसितं कृतम् अस्ति। अत्र निःशुल्कचिकित्सापरामर्शः सामान्यओपीडी दन्तओपीडी नेत्रओपीडी निदानपरीक्षाः औषधालयः चिकित्सीयपरामर्शः तथा निःशुल्कटीकाकरणसेवाः अपि उपलब्धाः सन्ति यासु बालानां नियमितटीकाकरणं अपि अन्तर्भवति।
अतिरिक्ततया अस्मिन् केन्द्रे समर्पिता दन्तचिकित्सायूनिट् योगवेलनेसकक्षः च सह व्यापकाः निवारकस्वास्थ्यसेवाः अपि सन्ति। अस्मिन् केन्द्रे वर्तमानकाले शताधिकाः आन्तरिकनिदानपरीक्षाः क्रियन्ते येषां क्षमता आगामिदिनेषु द्विशताधिकां कर्तुं योजनास्ति। पंकजकुमारः सिंहः अवदत् यत् भीमनगरीआरोग्यकेन्द्रात् आरभ्य आयुर्वेदाधारितं पञ्चकर्मचिकित्साप्रणालीं शीघ्रमेव समग्रदिल्लीस्थितेषु आयुष्मान् आरोग्यमन्दिरेषु चरणबद्धरीत्या प्रवर्तयिष्यन्ति येन स्थानीयस्तरे किफायती गुणवत्तायुक्ताः स्वास्थ्यसेवाः जनानां कृते सुलभाः भविष्यन्ति।
सः अपि अवदत् यत् वयं दिल्लीप्रदेशस्य प्रत्येकं नागरिकं प्रति विश्वस्तरीयाः प्राथमिकस्वास्थ्यसेवाः प्रापयितुं दृढसंकल्पिताः स्मः। अस्मिन् केन्द्रे आरभ्यमाणं पञ्चकर्मयूनिट् देशस्य श्रेष्ठतमकेन्द्रेषु गण्यते यत् सर्वेभ्यः उच्चगुणवत्तायुक्तां समग्रचिकित्सां प्रदास्यति।
आरोग्यमन्दिरस्य उद्घाटनसमारोहस्य अवसरं मालवीयनगरस्य विधायकः सतीशः उपाध्यायः स्वास्थ्यसमन्त्रिणः कुशलनेतृत्वस्य प्रशंसां कृत्वा अवदत् यत् भीमनगर्याः आरोग्यमन्दिरं स्वस्य उन्नतसंरचनया सामुदायिकसंपर्केण दन्तचिकित्सासेवाभिः समग्रओपीडी पञ्चकर्मसेवाभिः च सह राजधानीदिल्लीस्य आदर्शकेन्द्रं भवितुं शक्नोति। सः मदनमोहनमालवीयचिकित्सालयस्य सम्पूर्णपुनर्निर्माणाय तथा जिलास्तरीयनिदानप्रयोगशालायाः शीघ्रस्थापनाय स्वास्थ्यसमन्त्रिणं प्रति अनुरोधं कृतवान्।
अग्रे सः अवदत् यत् आयुष्मान् आरोग्यमन्दिरं केवलं प्राथमिकस्वास्थ्यकेन्द्रं नास्ति अपि तु स्थानीयनिवासिनां आकांक्षाः पूर्णं कुर्वन्तं महत्त्वपूर्णतमं स्थानम् अस्ति यत्र विश्वसनीयाः चिकित्सकाः निदानपरीक्षासुविधाः औषधानि तथा सर्वविधाः प्राथमिकस्वास्थ्यसेवाः उपलब्धाः सन्ति।
---------------
हिन्दुस्थान समाचार