Enter your Email Address to subscribe to our newsletters

जम्मूः, 14 जनवरीमासः (हि.स.)।
जम्मूकश्मीरशिक्षापरिषदा बुधवासरे कक्षा १० वार्षिकनियमितपरीक्षायाः परिणामाः घोषिताः, यत्र समग्रः उत्तीर्णप्रतिशतः ८४ आसीत्। जेकेबीओएसई इत्यस्य अधिकारिभिः उक्तं यत् ८४.०४ प्रतिशतं छात्राः परीक्षायां उत्तीर्णाः अभवन्।
कश्मीरमण्डले कक्षा १० वार्षिकनियमितपरीक्षा ३ नवम्बरतः आरब्धा, यस्यां ९४,००० अधिकाः छात्राः सम्मिलिताः अभवन्। जम्मूकश्मीरशिक्षापरिषदा (बीओएसई) कश्मीरप्रदेशे ९९४ परीक्षाकेन्द्राणि स्थापितानि आसन्।
बीओएसई इत्यनेन सूचितं यत् कक्षा १० वार्षिकनियमितपरीक्षार्थं नामाङ्कितेषु छात्रेषु ६८,८०४ छात्राः कश्मीरमण्डलस्य दशजिलाभ्यः सन्ति, तथा २५,२२४ छात्राः जम्मूमण्डलस्य शीतकालीनप्रदेशस्य अष्टजिलाभ्यः सन्ति। अतिरिक्तरूपेण, परिषदा एतदपि सूचितं यत् कारगिलजिल्लायाः न्यूनातिन्यूनं ६६० छात्राः तथा लेहजनपदात् ९५ छात्राः परीक्षायै पञ्जीकृतवन्तः।
पूर्वं बीओएसई सचिवेन उक्तं यत् प्रायः ९५,००० छात्राः दशमकक्षायाः परीक्षायां उपवेशनार्थं पञ्जीकृतवन्तः, तेषां कृते च परिषदा९९४ परीक्षाकेन्द्राणि निर्मितानि। उल्लेखनीयं यत् बीओएसई इत्यनेन कक्षा १०, ११ तथा १२ परीक्षाणां पाठ्यक्रमे १५ प्रतिशतस्य शिथिलता घोषिता आसीत्।
हिन्दुस्थान समाचार