Enter your Email Address to subscribe to our newsletters

-भाजपायाः प्रदेश महामंत्री संगठन धर्मपाल सिंहोऽपि ददात् शुभकामनाम्
लखनऊ, 14 जनवरीमासः (हि.स.)।भारतीयजनतापक्षस्य वरिष्ठनेता तथा उत्तरप्रदेशराज्यस्य उपमुख्यमन्त्री केशवप्रसादमौर्यः समस्तप्रदेशवासिनः पावनमकरसंक्रान्तिपर्वणि, उत्तरायणपर्वणि, पोंगलपर्वणि तथा माघबिहूपर्वणि हार्दिकाः अभिनन्दनाः शुभाशयांश्च अयच्छत्।
उपमुख्यमन्त्रीः सामाजिकमाध्यममञ्चे “एक्स” इति स्थले शुभेच्छाः प्रेषयन् अलिखत् यत् एते सर्वे पावनाः पर्वाणि नूतनारम्भस्य उल्लासस्य च प्रतीकाः सन्ति, ये भवतां जीवनं सुखेन, समृद्ध्या, सकारात्मकशक्त्या च नवप्रकाशेन पूरयन्तु इति ईश्वरात् प्रार्थये।
तथैव भारतीयजनतापक्षस्य प्रदेशमहामन्त्री (संगठनम्) धर्मपालसिंहः अपि प्रदेशवासिनः मकरसंक्रान्तिपर्वणि हार्दिकाः शुभेच्छाः प्रदत्तवान्। सः अपि “एक्स” माध्यमेन अलिखत् यत् एतत् पर्व भवतां जीवनं सुखसमृद्ध्या सकारात्मकशक्त्या च युक्तं करोतु।
हिन्दुस्थान समाचार