Enter your Email Address to subscribe to our newsletters

कोरबा/जांजगीरम् -चांपा, 14 जनवरीमासः (हि. स.)।
जनपदस्य जनपदपञ्चायत् पामगढस्य अन्तर्गतस्य मेहदीग्रामस्य निवासी रमेशकुमारः खटकरः एकस्मात् साधारणकृषकपरिवारात् आगतः अस्ति। सीमितसाधनैः, अनिश्चितायाम् आयायाम्, नित्यजीवनस्य आवश्यकताभिः च सह तस्य जीवनं दीर्घकालं संघर्षैः परिपूर्णम् आसीत्। कच्चगृहस्य कारणेन वर्षाकाले स्रवमाणा छत्, ग्रीष्मकाले दग्धं गृहं, शीतकाले च कुटुम्बस्य कापः—एते सर्वे प्रत्येकस्याम् ऋतौ तस्मै नूतनां परिस्थितिं जनयन्ति स्म।
एतादृशेषु कठिनपरिस्थितिषु अपि खटकरः कदापि धैर्यं न त्यक्तवान्। सः शासनस्य जनकल्याणकारीषु योजनासु विश्वासं धारयन् निरन्तरं प्रयासान् अकरोत्। अस्य विश्वासस्य परिश्रमस्य च फलरूपेण वित्तीयवर्षे 2024–25 मध्ये तस्मै प्रधानमंत्रीआवासयोजना (ग्रामीण) अन्तर्गतं एकलक्षद्विंशतिसहस्ररूप्यकाणां (1,20,000) धनराशिः स्वीकृता। एषा सहायता केवलं पक्कगृहप्राप्तिः न आसीत्, अपि तु वर्षैः सञ्चितानां कष्टानां असुरक्षायाश्च समाधानम् आसीत्।
तदनन्तरं महात्मागान्धीनरेगा योजनान्तर्गतं एकविंशतिसहस्राष्टशताधिकरूप्यकाणां (21,800) मजदूरीरूपेण रोजगारः अपि तस्मै लब्धः, येन पारिवारिकाः आवश्यकताः पूरितुं साहाय्यं जातम्। स्वच्छभारत मिशन (ग्रामीण) अन्तर्गतं शौचालयनिर्माणेन कुटुम्बाय स्वच्छतासहितं सम्मानजनकं जीवनं प्राप्तम्। तथा च प्रधानमंत्रीउज्ज्वलायोजना अन्तर्गतं गैससंयोजनप्राप्त्या रसोईगृहे धूमपूर्णायाः जीवनस्थितेः मोक्षः अभवत्, आरोग्येऽपि सुधारः दृष्टः।
अद्य रमेशकुमारस्य खटकरस्य पक्कगृहं केवलं इष्टिकापाषाणनिर्मिता संरचना नास्ति, अपि तु सम्मानस्य आत्मविश्वासस्य सुरक्षितभविष्यस्य च प्रतीकम् अस्ति। तस्य कथा अस्य सशक्तं उदाहरणं यत् यदि धैर्यं दृढं भवेत् तथा शासनयोजनानां सम्यक् मार्गदर्शनं लभ्येत, तर्हि संघर्षोऽपि सफलतायाः सोपानं भवितुं शक्नोति।
---------------
हिन्दुस्थान समाचार