सेना-दिवसस्य ‘शौर्य-सन्ध्या’-कार्यक्रमे सवाई-मानसिंह-क्रीडाङ्गणे विशेष-सुरक्षा-व्यवस्था यातायात-व्यवस्था च
जयपुरनगरम्, १४ जनवरीमासः (हि.स.)। अष्टसप्ततितमस्य सेना-दिवसस्य अवसरे १५ जनवरी दिने सवाई-मानसिंह-क्रीडाङ्गणे भव्यः शौर्य-सन्ध्या-कार्यक्रमः आयोजयिष्यते। कार्यक्रमस्य सफल-सुरक्षित-सम्पादनाय जयपुर-आरक्षी-कमिश्नरेट (दक्षिण)-पक्षेण विशेष-व्यवस्थाः विन्य
सेना दिवस शौर्य संध्या पर सवाई मानसिंह स्टेडियम में विशेष सुरक्षा और यातायात व्यवस्था


जयपुरनगरम्, १४ जनवरीमासः (हि.स.)। अष्टसप्ततितमस्य सेना-दिवसस्य अवसरे १५ जनवरी दिने सवाई-मानसिंह-क्रीडाङ्गणे भव्यः शौर्य-सन्ध्या-कार्यक्रमः आयोजयिष्यते। कार्यक्रमस्य सफल-सुरक्षित-सम्पादनाय जयपुर-आरक्षी-कमिश्नरेट (दक्षिण)-पक्षेण विशेष-व्यवस्थाः विन्यस्ताः सन्ति।जयपुर-आरक्षी-उपायुक्तः (दक्षिण) राजर्षि-राजः अवदत् यत् १५ जनवरी दिने शौर्य-सन्ध्या-कार्यक्रमसमये क्रीडाङ्गणे केवलं वैध-अनुमतिपत्रकधारिणः व्यक्तयः एव प्रवेशं प्राप्स्यन्ति। अनुमतिपत्रकं विना कस्यचित् अपि प्रवेशः न अनुमन्स्यते। कार्यक्रमे आगच्छन्तः दर्शकाः सुरक्षा-निर्देशानां पालनं कुर्वन्तु इति अपि आवेदितम्।आरक्षिणा सूचितं यत् उत्तर-पूर्व-प्रवेशद्वाराभ्यां आगच्छन्तां अनुमतिपत्रकधारिणां वाहनानां पार्किङ्ग्-व्यवस्था एस.एम.एस. इन्भेस्ट्मेण्ट्-क्षेत्रे तथा समीपस्थेषु निर्दिष्ट-स्थलेषु करिष्यते।किन्तु अमर- जवान-ज्योतिः समक्षं जनपथ-टोंक-मार्गे तथा भवानी-सिंह-मार्गे वाहन-पार्किङ्ग् पूर्णतया निषिद्धा भविष्यति।दर्शकानां सौविध्यर्थं क्रीडाङ्गणस्य कॉनकोर्स् (मध्य-भागे) सहायता-केन्द्राणि (हेल्प-डेस्क्) स्थापिताानि सन्ति, येन कस्यापि प्रकारस्य सूचनायाः समस्यायाश्च शीघ्र-समाधानं कर्तुं शक्येत।सुरक्षा-दृष्ट्या आरक्षिणा स्पष्टं कृतं यत् क्रीडाङ्गण-परिसरेखाद्य-पेय-वस्तूनि, ज्वलनशील-पदार्थान्, आयुधानि, विद्युतीय-उपकरणानि, तथा किमपि आपत्तिजनक-सामग्रीम् आनयितुं पूर्णतया निषेध: अस्ति।आरक्षिणा नगरवासिन: दर्शकान् च प्रति आवाहनं कृतं यत् ते समयात् पूर्वं कार्यक्रम-स्थलम् आगच्छेयुः, केवलं निर्दिष्ट-पार्किङ्ग-स्थलानाम् एव उपयोगं कुर्युः, तथा आरक्षीभि: दत्त-निर्देशानां पूर्णतया पालनं कुर्वन्तु, येन शौर्य-सन्ध्या-कार्यक्रमः गरिमामये सुरक्षिते च वातावरणे सफलतया सम्पन्नो भवेत्।

हिन्दुस्थान समाचार / अंशु गुप्ता