Enter your Email Address to subscribe to our newsletters

उत्तरकाशी, 14 जनवरीमासः (हि. स.)।मकरसंक्रान्त्यवसरे कडाकेण शैत्येनापि बुधवासरे उत्तरकाश्यां गङ्गाघाटेषु ब्रह्ममुहूर्तादेव सहस्रशः श्रद्धालवः भागीरथीगङ्गायां स्नानं कृत्वा पर्व आचरन्।
प्रातः चतुर्वादनात् पौराणिके मणिकर्णिकाघाटे, लक्षेश्वरे, शङ्करमठे, नाकुर्यां, देवीधारे, गंगोरीस्थे अस्सीगङ्गातटे तथा अन्येषु स्नानघाटेषु श्रद्धालवः आगन्तुम् आरब्धवन्तः। देवडोलिकानां सन्निधानेन ढोलनगाडैः सह निर्गतैः जुलूसैः समग्रं क्षेत्रं भक्तिमयेन वातावरणेन परिपूर्णम् अभवत्।
स्नानपर्वकाले बाडाहाट, बाडागड्डी, रनाडी, डुंडा, धनारी तथा टिहरीप्रदेशात् कंडारदेवता, हरिमहाराजः, खंडधारीमाता, नागदेवता, रिंगालीदेवी, नागराजः, त्रिपुरामाता, राजराजेश्वरी इत्यादीनां अनेकदेवदेवीनां डोलिकाः उत्तरकाशीं प्राप्तवत्यः।
तथैव यमुनाघाटीप्रदेशे स्थिते गङ्गायमुनायोः तथा केदारगङ्गायाः सङ्गमस्थले गंगनानीकुण्डे अपि प्रातःकालादेव श्रद्धालुभिः स्नानं कृतम्। प्रशासनपक्षेण सुरक्षा व्यवस्थायाश्च पर्याप्ताः उपायाः विन्यस्ताः सन्ति।
हिन्दुस्थान समाचार