मकर संक्रांति पर्वणि तिथीनां भ्रमं निवार्य लक्षं श्रद्धालवः पवित्र गंगाम् अकुर्वन् आस्थावगाहनम्
—प्रातरारभ्य गंगातटे स्नातुं के लिए प्राप्नुवन्तः आसन् श्रद्धालवः,प्रातरारभ्य मध्याह्नं यावत् गंगायां स्नानमवर्तत निरन्तरम् वाराणसी, 14 जनवरीमासः (हि.स.)। उत्तरप्रदेशस्य धार्मिकनगरी वाराणस्यां मकरसंक्रान्ति-पर्वणस्तिथिविषये उत्पन्नं भ्रमं परित्य
मकर संक्रांति पर्व पर गंगा स्नान करते श्रद्धालु


—प्रातरारभ्य

गंगातटे स्नातुं के लिए प्राप्नुवन्तः आसन् श्रद्धालवः,प्रातरारभ्य मध्याह्नं यावत् गंगायां स्नानमवर्तत निरन्तरम्

वाराणसी, 14 जनवरीमासः (हि.स.)। उत्तरप्रदेशस्य धार्मिकनगरी वाराणस्यां मकरसंक्रान्ति-पर्वणस्तिथिविषये उत्पन्नं भ्रमं परित्यज्य बुधवासरे लक्षाधिकाः श्रद्धालवः पवित्रायां गङ्गायां श्रद्धया स्नानं कृत्वा दानपुण्यकर्माणि अकुर्वन्। परम्परानुसारं १४ जनवरी तिथौ पर्वं मन्यमानाः श्रद्धालवः प्रभाते एव कुटुम्बेन सह गङ्गास्नानाय आगच्छन्ति स्म। उदीयमानस्य सूर्यदेवस्य दर्शनसमये आरभ्य दिनोन्नतिपर्यन्तं गङ्गाघाटेषु स्नान-ध्यानस्य निरन्तरः क्रमः प्रचलितः आसीत्। अपराह्णे अपि एषः क्रमः अव्याहतमेव आसीत्।

दशाश्वमेधघाटस्य तीर्थपुरोहितः अजय तिवारी अवदत् यत् अस्मिन् वर्षे मकरसंक्रान्ति-दिने बुधवासरे षट्तिला-एकादशी अपि अस्ति। प्रायः त्रयोविंशतिवर्षाणां अनन्तरं एतादृशः दुर्लभः संयोगः जातः, यत्र संक्रान्तिः एकादशी च एकस्मिन्नेव दिने पततः। एषः संयोगः अत्यन्तं पुण्यप्रदः मन्यते। अस्मिन् काले कृतं स्नानं दानं पूजनं च शुभफलदायकं भवति।

तेन एव उक्तं यत् अपराह्णे ३ वादनं ७ निमेषानन्तरं सूर्यदेवः मकरराशौ प्रवेशं करिष्यति। सूर्यस्य मकरराशौ प्रवेशः एव मकरसंक्रान्तिः कथ्यते। एषः गोचरः अपराह्णे भवति, अत एव तिथिविषये जनानां मध्ये संशयः उत्पन्नः। तथापि गोचराधारेण मकरसंक्रान्तिः १४ जनवरी तिथौ मननीयाऽस्ति, किन्तु स्नान-दान-पूजा-धार्मिककर्मणां कृते १५ जनवरी तिथिः अधिकं शुभा मन्यते। अतः श्रद्धालवः द्विदिनं पर्व आचरन्ति।

तेन अवदत् यत् स्नानपर्वणि काशीवासिनः बहिर्देशात् आगताः श्रद्धालवः च गङ्गास्नानं कृत्वा मातुः गङ्गायाः आशीर्वादं गृह्णन्ति। अस्मिन्नेव दिने पतङ्गक्रीडाऽपि भवति। पर्वदिने गङ्गाघाटेषु महतीं भीडं दृष्ट्वा पुलिसप्रशासनं पूर्णतया सज्जं आसीत्। गङ्गाघाटेषु सुरक्षायाः दृढाः व्यवस्थाः कृताः। पुलिसबलस्य महिला-पुलिस-कॉन्स्टेबलानां च नियुक्तिः कृता। ड्रोन-यन्त्रैः घाटेषु निरन्तरं निरीक्षणं क्रियते स्म।

पर्वणि गङ्गास्नानानन्तरं बालकाः युवानश्च गङ्गाघाटेभ्यः गृहपर्यन्तं पतङ्गक्रीडां आरब्धवन्तः। विज्ञायते यत् अस्मिन् वर्षे मकरसंक्रान्ति-पर्वस्य तिथिविषये जनानां मध्ये भ्रमः वर्तते। केचन १४ जनवरी तिथौ पर्वं मन्यन्ते, अपरे तु १५ जनवरी तिथौ। अयोध्यायां रामललामन्दिरस्य शिलान्यासस्य तथा विग्रहप्राणप्रतिष्ठायाः शुभमुहूर्तनिर्णेता काशीस्थः विद्वान् पण्डितः गणेश्वर द्राविडः वदति यत् संक्रान्तिपुण्यकालविषये गणेश आपा जी पञ्चाङ्गे देशपाण्डे पञ्चाङ्गे च मकरसंक्रान्तिपुण्यकालः १४ जनवरी तिथौ निर्दिष्टः अस्ति।

तस्मात् जनाः एतां त्रुटिं परिष्कृत्य १५ जनवरी तिथौ दिनस्य पूर्वार्धे मकरसंक्रान्तिनिमित्तं स्नानं दानं तर्पणं श्राद्धं पूजनं च कुर्वन्तु।अनवधानवशात् जाता च्युतिः संशोधयितुं जनाः सज्जाः सन्ति। एतादृश्या स्थितौ उक्तपञ्चाङ्गयोः विषये दुष्प्रचारः परिहासः वा करणीयः नास्ति।

हिन्दुस्थान समाचार